1 minute read

BrahmanandaMimamsa

तैत्तिरीयोपनिषत् - द्वितीया ब्रह्मानन्दमीमांसा

ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै ।
ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ।
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

भी॒षाऽस्मा॒द्वातः॑ पवते । भी॒षोदे॑ति॒ सूर्यः॑ ।
भीषाऽस्मादग्नि॑श्चेन्द्र॒श्च । मृत्युर्धावति पञ्च॑म इ॒ति ।
सैषाऽऽनन्दस्य मीमा॑ꣳसा भ॒वति ।
युवा स्यात्साधुयु॑वाऽध्या॒यकः ।
आशिष्ठो दृढिष्ठो॑ बलि॒ष्ठः ।
तस्येयं पृथिवी सर्वा वित्तस्य॑ पूर्णा॒ स्यात् ।
स एको मानुष॑ आन॒न्दः । ते ये शतं मानुषा॑ आन॒न्दाः ॥ १॥

स एको मनुष्यगन्धर्वाणा॑मान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य ।
ते ये शतं मनुष्यगन्धर्वाणा॑मान॒न्दाः ।
स एको देवगन्धर्वाणा॑मान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य ।
ते ये शतं देवगन्धर्वाणा॑मान॒न्दाः ।
स एकः पितृणां चिरलोकलोकाना॑मान॒न्दः ।
श्रोत्रियस्य चाकाम॑हत॒स्य ।
ते ये शतं पितृणां चिरलोकलोकाना॑मान॒न्दाः ।
स एक आजानजानां देवाना॑मान॒न्दः ॥ २॥

श्रोत्रियस्य चाकाम॑हत॒स्य ।
ते ये शतं आजानजानां देवाना॑मान॒न्दाः ।
स एकः कर्मदेवानां देवाना॑मान॒न्दः ।
ये कर्मणा देवान॑पिय॒न्ति । श्रोत्रियस्य चाकाम॑हत॒स्य ।
ते ये शतं कर्मदेवानां देवाना॑मान॒न्दाः ।
स एको देवाना॑मान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य ।
ते ये शतं देवाना॑मान॒न्दाः । स एक इन्द्र॑स्याऽऽन॒न्दः ॥ ३॥

श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शतमिन्द्र॑स्याऽऽन॒न्दाः ।
स एको बृहस्पते॑रान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य ।
ते ये शतं बृहस्पते॑रान॒न्दाः । स एकः प्रजापते॑रान॒न्दः ।
श्रोत्रियस्य चाकाम॑हत॒स्य ।
ते ये शतं प्रजापते॑रान॒न्दाः ।
स एको ब्रह्मण॑ आन॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य ॥ ४॥

स यश्चा॑यं पु॒रुषे । यश्चासा॑वादि॒त्ये । स एकः॑ ।
स य॑ एवं॒वित् । अस्माल्लो॑कात्प्रे॒त्य ।
एतमन्नमयमात्मानमुप॑सङ्क्रा॒मति ।
एतं प्राणमयमात्मानमुप॑सङ्क्रा॒मति ।
एतं मनोमयमात्मानमुप॑सङ्क्रा॒मति ।
एतं विज्ञानमयमात्मानमुप॑सङ्क्रा॒मति ।
एतमानन्दमयमात्मानमुप॑सङ्क्रा॒मति ।
तदप्येष श्लोको॑ भ॒वति ॥ ५॥ इत्यष्टमोऽनुवाकः ॥

यतो॒ वाचो॒ निव॑र्तन्ते । अप्रा॑प्य॒ मन॑सा स॒ह ।
आनन्दं ब्रह्म॑णो वि॒द्वान् ।
न बिभेति कुत॑श्चने॒ति ।
एतꣳह वाव॑ न त॒पति ।
किमहꣳसाधु॑ नाक॒रवम् । किमहं पापमकर॑वमि॒ति ।
स य एवं विद्वानेते आत्मा॑न स्पृ॒णुते ।
उ॒भे ह्ये॑वैष॒ एते आत्मा॑न स्पृ॒णुते । य ए॒वं वेद॑ ।
इत्यु॑प॒निष॑त् ॥ १॥

ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै ।
ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ।
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

https://sanskrit.dasarpai.com/brahmanandamimamsa/