8 minute read

॥ छान्दोग्योपनिषत् ॥

Chandogyopnishad 1

॥ अथ छान्दोग्योपनिषत् ॥
ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्च्क्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि ।
सर्वं ब्रह्मौपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिकारणमस्त्वनिकारणं मेऽस्तु ।
तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥

॥ ॐ शान्तिः शान्तिः शान्तिः ॥

छान्दोग्योपनिषत् प्रथमोऽध्यायः
ओमित्येतदक्षरमुद्गीथमुपासीत ।
ओमिति ह्युद्गायति तस्योपव्याख्यानम् ॥ १.१.१॥

एषां भूतानां पृथिवी रसः पृथिव्या अपो रसः ।
अपामोषधयो रस ओषधीनां पुरुषो रसः
पुरुषस्य वाग्रसो वाच ऋग्रस ऋचः साम रसः
साम्न उद्गीथो रसः ॥ १.१.२॥

स एष रसानाꣳरसतमः परमः परार्ध्योऽष्टमो यदुद्गीथः ॥ १.१.३॥

कतमा कतमर्क्कतमत्कतमत्साम कतमः कतम उद्गीथ
इति विमृष्टं भवति ॥ १.१.४॥

वागेवर्क्प्राणः सामोमित्येतदक्षरमुद्गीथः ।
तद्वा एतन्मिथुनं यद्वाक्च प्राणश्चर्क्च साम च ॥ १.१.५॥

तदेतन्मिथुनमोमित्येतस्मिन्नक्षरे सꣳसृज्यते
यदा वै मिथुनौ समागच्छत आपयतो वै
तावन्योन्यस्य कामम् ॥ १.१.६॥

आपयिता ह वै कामानां भवति य एतदेवं
विद्वानक्षरमुद्गीथमुपास्ते ॥ १.१.७॥

तद्वा एतदनुज्ञाक्षरं यद्धि किंचानुजानात्योमित्येव
तदाहैषो एव समृद्धिर्यदनुज्ञा समर्धयिता ह वै
कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ॥ १.१.८॥

तेनेयं त्रयीविद्या वर्तते ओमित्याश्रावयत्योमिति
शꣳसत्योमित्युद्गायत्येतस्यैवाक्षरस्यापचित्यै महिम्ना रसेन ॥ १.१.९॥

तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद ।
नाना तु विद्या चाविद्या च यदेव विद्यया करोति
श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतीति
खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवति ॥ १.१.१०॥

॥ इति प्रथमः खण्डः ॥
देवासुरा ह वै यत्र संयेतिरे उभये प्राजापत्यास्तद्ध
देवा उद्गीथमाजह्रुरनेनैनानभिभविष्याम इति ॥ १.२.१॥

ते ह नासिक्यं प्राणमुद्गीथमुपासांचक्रिरे
तꣳ हासुराः पाप्मना विविधुस्तस्मात्तेनोभयं जिघ्रति
सुरभि च दुर्गन्धि च पाप्मना ह्येष विद्धः ॥ १.२.२॥

अथ ह वाचमुद्गीथमुपासांचक्रिरे ताꣳ हासुराः पाप्मना
विविधुस्तस्मात्तयोभयं वदति सत्यं चानृतं च पाप्मना ह्येषा विद्धा ॥ १.२.३॥

अथ ह चक्षुरुद्गीथमुपासांचक्रिरे तद्धासुराः
पाप्मना विविधुस्तस्मात्तेनोभयं पश्यति दर्शनीयं
चादर्शनीयं च पाप्मना ह्येतद्विद्धम् ॥ १.२.४॥

अथ ह श्रोत्रमुद्गीथमुपासांचक्रिरे तद्धासुराः
पाप्मना विविधुस्तस्मात्तेनोभयꣳ श‍ृणोति श्रवणीयं
चाश्रवणीयं च पाप्मना ह्येतद्विद्धम् ॥ १.२.५॥

अथ ह मन उद्गीथमुपासांचक्रिरे तद्धासुराः
पाप्मना विविधुस्तस्मात्तेनोभयꣳसंकल्पते संकल्पनीयंच
चासंकल्पनीयं च पाप्मना ह्येतद्विद्धम् ॥ १.२.६॥

अथ ह य एवायं मुख्यः प्राणस्तमुद्गीथमुपासांचक्रिरे
तꣳहासुरा ऋत्वा विदध्वंसुर्यथाश्मानमाखणमृत्वा
विध्वꣳसेतैवम् ॥ १.२.७॥

यथाश्मानमाखणमृत्वा विध्वꣳसत एवꣳ हैव
स विध्वꣳसते य एवंविदि पापं कामयते
यश्चैनमभिदासति स एषोऽश्माखणः ॥ १.२.८॥

नैवैतेन सुरभि न दुर्गन्धि विजानात्यपहतपाप्मा ह्येष
तेन यदश्नाति यत्पिबति तेनेतरान्प्राणानवति एतमु
एवान्ततोऽवित्त्वोत्क्रमति व्याददात्येवान्तत इति ॥ १.२.९॥

तꣳ हाङ्गिरा उद्गीथमुपासांचक्र एतमु एवाङ्गिरसं
मन्यन्तेऽङ्गानां यद्रसः ॥ १.२.१०॥

तेन तꣳ ह बृहस्पतिरुद्गीथमुपासांचक्र एतमु एव बृहस्पतिं
मन्यन्ते वाग्घि बृहती तस्या एष पतिः ॥ १.२.११ ॥

तेन तꣳ हायास्य उद्गीथमुपासांचक्र एतमु एवायास्यं
मन्यन्त आस्याद्यदयते ॥ १.२.१२॥

तेन तꣳह बको दाल्भ्यो विदांचकार ।
स ह नैमिशीयानामुद्गाता बभूव स ह स्मैभ्यः कामानागायति ॥ १.२.१३॥

आगाता ह वै कामानां भवति य एतदेवं
विद्वानक्षरमुद्गीथमुपास्त इत्यध्यात्मम् ॥ १.२.१४॥

॥ इति द्वितीयः खण्डः ॥
अथाधिदैवतं य एवासौ तपति
तमुद्गीथमुपासीतोद्यन्वा एष प्रजाभ्य उद्गायति ।
उद्यꣳस्तमो भयमपहन्त्यपहन्ता ह वै भयस्य
तमसो भवति य एवं वेद ॥ १.३.१॥

समान उ एवायं चासौ चोष्णोऽयमुष्णोऽसौ
स्वर इतीममाचक्षते स्वर इति प्रत्यास्वर इत्यमुं
तस्माद्वा एतमिमममुं चोद्गीथमुपासीत ॥ १.३.२॥

अथ खलु व्यानमेवोद्गीथमुपासीत यद्वै प्राणिति
स प्राणो यदपानिति सोऽपानः ।
अथ यः प्राणापानयोः संधिः स व्यानो यो व्यानः सा वाक् ।
तस्मादप्राणन्ननपानन्वाचमभिव्याहरति ॥ १.३.३॥

या वाक्सर्क्तस्मादप्राणन्ननपानन्नृचमभिव्याहरति
यर्क्तत्साम तस्मादप्राणन्ननपानन्साम गायति
यत्साम स उद्गीथस्तस्मादप्राणन्ननपानन्नुद्गायति ॥ १.३.४॥

अतो यान्यन्यानि वीर्यवन्ति कर्माणि यथाग्नेर्मन्थनमाजेः
सरणं दृढस्य धनुष आयमनमप्राणन्ननपानꣳस्तानि
करोत्येतस्य हेतोर्व्यानमेवोद्गीथमुपासीत ॥ १.३.५॥

अथ खलूद्गीथाक्षराण्युपासीतोद्गीथ इति
प्राण एवोत्प्राणेन ह्युत्तिष्ठति वाग्गीर्वाचो ह
गिर इत्याचक्षतेऽन्नं थमन्ने हीदꣳसर्वꣳस्थितम् ॥ १.३.६॥

द्यौरेवोदन्तरिक्षं गीः पृथिवी थमादित्य
एवोद्वायुर्गीरग्निस्थꣳ सामवेद एवोद्यजुर्वेदो
गीरृग्वेदस्थं दुग्धेऽस्मै वाग्दोहं यो वाचो
दोहोऽन्नवानन्नादो भवति य एतान्येवं
विद्वानुद्गीथाक्षराण्युपास्त उद्गीथ इति ॥ १.३.७॥

अथ खल्वाशीःसमृद्धिरुपसरणानीत्युपासीत
येन साम्ना स्तोष्यन्स्यात्तत्सामोपधावेत् ॥ १.३.८॥

यस्यामृचि तामृचं यदार्षेयं तमृषिं यां
देवतामभिष्टोष्यन्स्यात्तां देवतामुपधावेत् ॥ १.३.९॥

येन च्छन्दसा स्तोष्यन्स्यात्तच्छन्द उपधावेद्येन
स्तोमेन स्तोष्यमाणः स्यात्तꣳस्तोममुपधावेत् ॥ १.३.१०॥

यां दिशमभिष्टोष्यन्स्यात्तां दिशमुपधावेत् ॥ १.३.११॥

आत्मानमन्तत उपसृत्य स्तुवीत कामं
ध्यायन्नप्रमत्तोऽभ्याशो ह यदस्मै स कामः समृध्येत
यत्कामः स्तुवीतेति यत्कामः स्तुवीतेति ॥ १.३.१२॥

॥ इति तृतीयः खण्डः ॥
ओमित्येतदक्षरमुद्गीथमुपासीतोमिति ह्युद्गायति तस्योपव्याख्यानम् ॥ १.४.१॥

देवा वै मृत्योर्बिभ्यतस्त्रयीं विद्यां प्राविशꣳस्ते
छन्दोभिरच्छादयन्यदेभिरच्छादयꣳस्तच्छन्दसां छन्दस्त्वम् ॥ १.४.२॥

तानु तत्र मृत्युर्यथा मत्स्यमुदके परिपश्येदेवं
पर्यपश्यदृचि साम्नि यजुषि ।
ते नु विदित्वोर्ध्वा ऋचः साम्नो यजुषः स्वरमेव प्राविशन् ॥ १.४.३॥

यदा वा ऋचमाप्नोत्योमित्येवातिस्वरत्येवꣳसामैवं
यजुरेष उ स्वरो यदेतदक्षरमेतदमृतमभयं तत्प्रविश्य
देवा अमृता अभया अभवन् ॥ १.४.४॥

स य एतदेवं विद्वानक्षरं प्रणौत्येतदेवाक्षरꣳ
स्वरममृतमभयं प्रविशति तत्प्रविश्य यदमृता देवास्तदमृतो भवति ॥ १.४.५॥

॥ इति चतुर्थः खण्डः ॥
अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ
इत्यसौ वा आदित्य उद्गीथ एष प्रणव ओमिति ह्येष स्वरन्नेति ॥ १.५.१॥

एतमु एवाहमभ्यगासिषं तस्मान्मम त्वमेकोऽसीति
ह कौषीतकिः पुत्रमुवाच रश्मीꣳस्त्वं पर्यावर्तयाद्बहवो
वै ते भविष्यन्तीत्यधिदैवतम् ॥ १.५.२॥

अथाध्यात्मं य एवायं मुख्यः
प्राणस्तमुद्गीथमुपासीतोमिति ह्येष स्वरन्नेति ॥ १.५.३॥

एतमु एवाहमभ्यगासिषं तस्मान्मम त्वमेकोऽसीति ह
कौषीतकिः पुत्रमुवाच प्राणाꣳस्त्वं
भूमानमभिगायताद्बहवो वै मे भविष्यन्तीति ॥ १.५.४॥

अथ खलु य उद्गीथः स प्रणवो यः प्रणवः
स उद्गीथ इति होतृषदनाद्धैवापि
दुरुद्गीथमनुसमाहरतीत्यनुसमाहरतीति ॥। १.५.५॥

॥ इति पञ्चमः खण्डः ॥
इयमेवर्गग्निः साम तदेतदेतस्यामृच्यध्यूढ़ꣳ साम
तस्मादृच्यध्यूढꣳसाम गीयत इयमेव साग्निरमस्तत्साम ॥ १.६.१॥

अन्तरिक्षमेवर्ग्वायुः साम तदेतदेतस्यामृच्यध्यूढꣳ साम
तस्मादृच्यध्यूढꣳ साम गीयतेऽन्तरिक्षमेव सा वायुरमस्तत्साम ॥ १.६.२॥

द्यौरेवर्गादित्यः साम तदेतदेतस्यामृच्यध्यूढꣳ साम
तस्मादृच्यध्यूढꣳ साम गीयते द्यौरेव
सादित्योऽमस्तत्साम ॥ १.६.३॥

नक्षत्रान्येवर्क्चन्द्रमाः साम तदेतदेतस्यामृच्यध्यूढꣳ साम
तस्मादृच्यध्यूढꣳ साम गीयते नक्षत्राण्येव सा चन्द्रमा अमस्तत्साम ॥ १.६.४॥

अथ यदेतदादित्यस्य शुक्लं भाः सैवर्गथ यन्नीलं परः
कृष्णं तत्साम तदेतदेतस्यामृच्यध्यूढꣳ साम
तस्मादृच्यध्यूढꣳ साम गीयते ॥ १.६.५॥

अथ यदेवैतदादित्यस्य शुक्लं भाः सैव
साथ यन्नीलं परः कृष्णं तदमस्तत्सामाथ
य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते
हिरण्यश्मश्रुर्हिरण्यकेश आप्रणस्वात्सर्व एव
सुवर्णः ॥ १.६.६॥

तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी
तस्योदिति नाम स एष सर्वेभ्यः पाप्मभ्य उदित
उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद ॥ १.६.७॥

तस्यर्क्च साम च गेष्णौ
तस्मादुद्गीथस्तस्मात्त्वेवोद्गातैतस्य हि गाता
स एष ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे
देवकामानां चेत्यधिदैवतम् ॥ १.६.८॥

॥ इति षष्ठः खण्डः ॥
अथाध्यात्मं वागेवर्क्प्राणः साम तदेतदेतस्यामृच्यध्यूढꣳ
साम तस्मादृच्यध्यूढꣳसाम गीयते।
वागेव सा प्राणोऽमस्तत्साम ॥ १.७.१॥

चक्षुरेवर्गात्मा साम तदेतदेतस्यामृच्यध्यूढꣳसाम
तस्मादृच्यध्यूढꣳसाम गीयते ।
चक्षुरेव सात्मामस्तत्साम ॥ १.७.२॥

श्रोत्रमेवर्ङ्मनः साम तदेतदेतस्यामृच्यध्यूढꣳसाम
तस्मादृच्यध्यूढꣳसाम गीयते ।
श्रोत्रमेव सा मनोऽमस्तत्साम ॥ १.७.३॥

अथ यदेतदक्ष्णः शुक्लं भाः सैवर्गथ यन्नीलं परः
कृष्णं तत्साम तदेतदेतस्यामृच्यध्यूढꣳसाम
तस्मादृच्यध्यूढꣳसाम गीयते ।
अथ यदेवैतदक्ष्णः शुक्लं भाः सैव साथ यन्नीलं परः
कृष्णं तदमस्तत्साम ॥ १.७.४॥

अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते सैवर्क्तत्साम
तदुक्थं तद्यजुस्तद्ब्रह्म तस्यैतस्य तदेव रूपं यदमुष्य रूपं
यावमुष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नाम ॥ १.७.५॥

स एष ये चैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां
चेति तद्य इमे वीणायां गायन्त्येतं ते गायन्ति
तस्मात्ते धनसनयः ॥ १.७.६॥

अथ य एतदेवं विद्वान्साम गायत्युभौ स गायति
सोऽमुनैव स एष चामुष्मात्पराञ्चो
लोकास्ताꣳश्चाप्नोति देवकामाꣳश्च ॥ १.७.७॥

अथानेनैव ये चैतस्मादर्वाञ्चो लोकास्ताꣳश्चाप्नोति
मनुष्यकामाꣳश्च तस्मादु हैवंविदुद्गाता ब्रूयात् ॥ १.७.८॥

कं ते काममागायानीत्येष ह्येव कामागानस्येष्टे य
एवं विद्वान्साम गायति साम गायति ॥ १.७.९॥

॥ इति सप्तमः खण्डः ॥
त्रयो होद्गीथे कुशला बभूवुः शिलकः शालावत्यश्चैकितायनो
दाल्भ्यः प्रवाहणो जैवलिरिति ते होचुरुद्गीथे
वै कुशलाः स्मो हन्तोद्गीथे कथां वदाम इति ॥ १.८.१॥

तथेति ह समुपविविशुः स ह प्रावहणो जैवलिरुवाच
भगवन्तावग्रे वदतां ब्राह्मणयोर्वदतोर्वाचꣳ श्रोष्यामीति ॥ १.८.२॥

स ह शिलकः शालावत्यश्चैकितायनं दाल्भ्यमुवाच
हन्त त्वा पृच्छानीति पृच्छेति होवाच ॥ १.८.३॥

का साम्नो गतिरिति स्वर इति होवाच स्वरस्य का
गतिरिति प्राण इति होवाच प्राणस्य का
गतिरित्यन्नमिति होवाचान्नस्य का गतिरित्याप इति होवाच ॥ १.८.४॥

अपां का गतिरित्यसौ लोक इति होवाचामुष्य लोकस्य
का गतिरिति न स्वर्गं लोकमिति नयेदिति होवाच स्वर्गं
वयं लोकꣳ सामाभिसंस्थापयामः स्वर्गसꣳस्तावꣳहि सामेति ॥ १.८.५॥

तꣳ ह शिलकः शालावत्यश्चैकितायनं
दाल्भ्यमुवाचाप्रतिष्ठितं वै किल ते दाल्भ्य साम
यस्त्वेतर्हि ब्रूयान्मूर्धा ते विपतिष्यतीति मूर्धा ते
विपतेदिति ॥ १.८.६॥

हन्ताहमेतद्भगवतो वेदानीति विद्धीति होवाचामुष्य
लोकस्य का गतिरित्ययं लोक इति होवाचास्य लोकस्य
का गतिरिति न प्रतिष्ठां लोकमिति नयेदिति होवाच
प्रतिष्ठां वयं लोकꣳ सामाभिसꣳस्थापयामः
प्रतिष्ठासꣳस्तावꣳ हि सामेति ॥ १.८.७॥

तꣳ ह प्रवाहणो जैवलिरुवाचान्तवद्वै किल ते
शालावत्य साम यस्त्वेतर्हि ब्रूयान्मूर्धा ते विपतिष्यतीति
मूर्धा ते विपतेदिति हन्ताहमेतद्भगवतो वेदानीति विद्धीति होवाच ॥ १.८.८॥

॥ इति अष्टमः खण्डः ॥
अस्य लोकस्य का गतिरित्याकाश इति होवाच
सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्त
आकाशं प्रत्यस्तं यन्त्याकाशो ह्येवैभ्यो ज्यायानकाशः परायणम् ॥ १.९.१॥

स एष परोवरीयानुद्गीथः स एषोऽनन्तः परोवरीयो
हास्य भवति परोवरीयसो ह लोकाञ्जयति
य एतदेवं विद्वान्परोवरीयाꣳसमुद्गीथमुपास्ते ॥ १.९.२॥

तꣳ हैतमतिधन्वा शौनक उदरशाण्डिल्यायोक्त्वोवाच
यावत्त एनं प्रजायामुद्गीथं वेदिष्यन्ते परोवरीयो
हैभ्यस्तावदस्मिꣳल्लोके जीवनं भविष्यति ॥ १.९.३॥

तथामुष्मिꣳल्लोके लोक इति स य एतमेवं विद्वानुपास्ते
परोवरीय एव हास्यास्मिꣳल्लोके जीवनं भवति
तथामुष्मिꣳल्लोके लोक इति लोके लोक इति ॥ १.९.४॥

॥ इति नवमः खण्डः ॥
मटचीहतेषु कुरुष्वाटिक्या सह जाययोषस्तिर्ह
चाक्रायण इभ्यग्रामे प्रद्राणक उवास ॥ १.१०.१॥

स हेभ्यं कुल्माषान्खादन्तं बिभिक्षे तꣳ होवाच ।
नेतोऽन्ये विद्यन्ते यच्च ये म इम उपनिहिता इति ॥ १.१०.२॥

एतेषां मे देहीति होवाच तानस्मै प्रददौ
हन्तानुपानमित्युच्छिष्टं वै मे पीतꣳस्यादिति होवाच ॥ १.१०.३॥

न स्विदेतेऽप्युच्छिष्टा इति न वा
अजीविष्यमिमानखादन्निति होवाच कामो म उदपानमिति ॥ १.१०.४॥

स ह खादित्वातिशेषाञ्जायाया आजहार साग्र एव
सुभिक्षा बभूव तान्प्रतिगृह्य निदधौ ॥ १.१०.५॥

स ह प्रातः संजिहान उवाच यद्बतान्नस्य लभेमहि
लभेमहि धनमात्राꣳराजासौ यक्ष्यते स मा
सर्वैरार्त्विज्यैर्वृणीतेति ॥ १.१०.६॥

तं जायोवाच हन्त पत इम एव कुल्माषा इति
तान्खादित्वामुं यज्ञं विततमेयाय ॥ १.१०.७॥

तत्रोद्गातॄनास्तावे स्तोष्यमाणानुपोपविवेश
स ह प्रस्तोतारमुवाच ॥ १.१०.८॥

प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रस्तोष्यसि
मूर्धा ते विपतिष्यतीति ॥ १.१०.९॥

एवमेवोद्गातारमुवाचोद्गातर्या देवतोद्गीथमन्वायत्ता
तां चेदविद्वानुद्गास्यसि मूर्धा ते विपतिष्यतीति ॥ १.१०.१०॥

एवमेव प्रतिहर्तारमुवाच प्रतिहर्तर्या देवता
प्रतिहारमन्वायत्ता तां चेदविद्वान्प्रतिहरिष्यसि मूर्धा ते
विपतिष्यतीति ते ह समारतास्तूष्णीमासांचक्रिरे ॥ १.१०.११॥

॥ इति दशमः खण्डः ॥
अथ हैनं यजमान उवाच भगवन्तं वा अहं
विविदिषाणीत्युषस्तिरस्मि चाक्रायण इति होवाच ॥ १.११.१॥

स होवाच भगवन्तं वा अहमेभिः सर्वैरार्त्विज्यैः
पर्यैषिषं भगवतो वा अहमवित्त्यान्यानवृषि ॥ १.११.२॥

भगवाꣳस्त्वेव मे सर्वैरार्त्विज्यैरिति तथेत्यथ
तर्ह्येत एव समतिसृष्टाः स्तुवतां यावत्त्वेभ्यो धनं
दद्यास्तावन्मम दद्या इति तथेति ह यजमान उवाच ॥ १.११.३॥

अथ हैनं प्रस्तोतोपससाद प्रस्तोतर्या देवता
प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रस्तोष्यसि मूर्धा ते
विपतिष्यतीति मा भगवानवोचत्कतमा सा देवतेति ॥ १.११.४॥

प्राण इति होवाच सर्वाणि ह वा इमानि भूतानि
प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते सैषा देवता
प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रास्तोष्यो
मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति ॥ १.११.५॥

अथ हैनमुद्गातोपससादोद्गातर्या देवतोद्गीथमन्वायत्ता
तां चेदविद्वानुद्गास्यसि मूर्धा ते विपतिष्यतीति
मा भगवानवोचत्कतमा सा देवतेति ॥ १.११.६॥

आदित्य इति होवाच सर्वाणि ह वा इमानि
भूतान्यादित्यमुच्चैः सन्तं गायन्ति सैषा
देवतोद्गीथमन्वायत्ता तां चेदविद्वानुदगास्यो
मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति ॥ १.११.७॥

अथ हैनं प्रतिहर्तोपससाद प्रतिहर्तर्या देवता
प्रतिहारमन्वायत्ता तां चेदविद्वान्प्रतिहरिष्यसि
मूर्धा ते विपतिष्यतीति मा भगवानवोचत्कतमा
सा देवतेति ॥ १.११.८॥

अन्नमिति होवाच सर्वाणि ह वा इमानि भूतन्यन्नमेव
प्रतिहरमाणानि जीवन्ति सैषा देवता प्रतिहारमन्वायत्ता
तां चेदविद्वान्प्रत्यहरिष्यो मूर्धा ते व्यपतिष्यत्तथोक्तस्य
मयेति तथोक्तस्य मयेति ॥ १.११.९॥

॥ इति एकादशः खण्डः ॥
अथातः शौव उद्गीथस्तद्ध बको दाल्भ्यो ग्लावो वा
मैत्रेयः स्वाध्यायमुद्वव्राज ॥ १.१२.१॥

तस्मै श्वा श्वेतः प्रादुर्बभूव तमन्ये श्वान
उपसमेत्योचुरन्नं नो भगवानागायत्वशनायामवा इति ॥ १.१२.२॥

तान्होवाचेहैव मा प्रातरुपसमीयातेति तद्ध बको दाल्भ्यो
ग्लावो वा मैत्रेयः प्रतिपालयांचकार ॥ १.१२.३॥

ते ह यथैवेदं बहिष्पवमानेन स्तोष्यमाणाः सꣳरब्धाः
सर्पन्तीत्येवमाससृपुस्ते ह समुपविश्य हिं चक्रुः ॥ १.१२.४॥

ओ३मदा३मों३पिबा३मों३ देवो वरुणः
प्रजपतिः सविता२न्नमिहा२हरदन्नपते३ऽन्नमिहा २हरा२हरो३मिति ॥ १.१२.५॥

॥ इति द्वादशः खण्डः ॥
अयं वाव लोको हाउकारः वायुर्हाइकारश्चन्द्रमा
अथकारः । आत्मेहकारोऽग्निरीकारः ॥ १.१३.१॥

आदित्य ऊकारो निहव एकारो विश्वे देवा
औहोयिकारः प्रजपतिर्हिंकारः प्राणः स्वरोऽन्नं या वाग्विराट् ॥ १.१३.२॥

अनिरुक्तस्त्रयोदशः स्तोभः संचरो हुंकारः ॥ १.१३.३॥

दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति
य एतामेवꣳसाम्नामुपनिषदं वेदोपनिषदं वेदेति ॥ १.१३.४॥

॥ इति त्रयोदशः खण्डः ॥
॥ इति प्रथमोऽध्यायः ॥

https://sanskrit.dasarpai.com/chandogyopnishad-1/