7 minute read

छान्दोग्योपनिषत् चतुर्थोऽध्यायः

Chandogyopnishad 4

जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस
स ह सर्वत आवसथान्मापयांचक्रे सर्वत एव
मेऽन्नमत्स्यन्तीति ॥ ४.१.१॥

अथ हꣳसा निशायामतिपेतुस्तद्धैवꣳ हꣳ सोहꣳ समभ्युवाद
हो होऽयि भल्लाक्ष भल्लाक्ष जानश्रुतेः पौत्रायणस्य
समं दिवा ज्योतिराततं तन्मा प्रसाङ्क्षी स्तत्त्वा
मा प्रधाक्षीरिति ॥ ४.१.२॥

तमु ह परः प्रत्युवाच कम्वर एनमेतत्सन्तꣳ सयुग्वानमिव
रैक्वमात्थेति यो नु कथꣳ सयुग्वा रैक्व इति ॥ ४.१.३॥

यथा कृतायविजितायाधरेयाः संयन्त्येवमेनꣳ सर्वं
तदभिसमैति यत्किंच प्रजाः साधु कुर्वन्ति यस्तद्वेद
यत्स वेद स मयैतदुक्त इति ॥ ४.१.४॥

तदु ह जानश्रुतिः पौत्रायण उपशुश्राव
स ह संजिहान एव क्षत्तारमुवाचाङ्गारे ह सयुग्वानमिव
रैक्वमात्थेति यो नु कथꣳ सयुग्वा रैक्व इति ॥ ४.१.५॥

यथा कृतायविजितायाधरेयाः संयन्त्येवमेनꣳ सर्वं
तदभिसमैति यत्किंच प्रजाः साधु कुर्वन्ति यस्तद्वेद
यत्स वेद स मयैतदुक्त इति ॥ ४.१.६॥

स ह क्षत्तान्विष्य नाविदमिति प्रत्येयाय तꣳ होवाच
यत्रारे ब्राह्मणस्यान्वेषणा तदेनमर्च्छेति ॥ ४.१.७॥

सोऽधस्ताच्छकटस्य पामानं कषमाणमुपोपविवेश
तꣳ हाभ्युवाद त्वं नु भगवः सयुग्वा रैक्व
इत्यहꣳ ह्यरा३ इति ह प्रतिजज्ञे स ह क्षत्ताविदमिति प्रत्येयाय ॥ ४.१.८ ॥

॥ इति प्रथमः खण्डः ॥
तदु ह जानश्रुतिः पौत्रायणः षट्शतानि गवां
निष्कमश्वतरीरथं तदादाय प्रतिचक्रमे तꣳ हाभ्युवाद ॥ ४.२.१॥

रैक्वेमानि षट्शतानि गवामयं निष्कोऽयमश्वतरीरथोऽनु
म एतां भगवो देवताꣳ शाधि यां देवतामुपास्स इति ॥ ४.२.२॥

तमु ह परः प्रत्युवाचाह हारेत्वा शूद्र तवैव सह
गोभिरस्त्विति तदु ह पुनरेव जानश्रुतिः पौत्रायणः
सहस्रं गवां निष्कमश्वतरीरथं दुहितरं तदादाय प्रतिचक्रमे ॥ ४.२.३॥

तꣳ हाभ्युवाद रैक्वेदꣳ सहस्रं गवामयं
निष्कोऽयमश्वतरीरथ इयं जायायं ग्रामो
यस्मिन्नास्सेऽन्वेव मा भगवः शाधीति ॥ ४.२.४ ॥

तस्या ह मुखमुपोद्गृह्णन्नुवाचाजहारेमाः शूद्रानेनैव
मुखेनालापयिष्यथा इति ते हैते रैक्वपर्णा नाम
महावृषेषु यत्रास्मा उवास स तस्मै होवाच ॥ ४.२.५ ॥

॥ इति द्वितीयः खण्डः ॥
वायुर्वाव संवर्गो यदा वा अग्निरुद्वायति वायुमेवाप्येति
यदा सूर्योऽस्तमेति वायुमेवाप्येति यदा चन्द्रोऽस्तमेति वायुमेवाप्येति ॥ ४.३.१॥

यदाप उच्छुष्यन्ति वायुमेवापियन्ति
वायुर्ह्येवैतान्सर्वान्संवृङ्क्त इत्यधिदैवतम् ॥ ४.३.२॥

अथाध्यात्मं प्राणो वाव संवर्गः स यदा स्वपिति प्राणमेव
वागप्येति प्राणं चक्षुः प्राणꣳ श्रोत्रं प्राणं मनः प्राणो
ह्येवैतान्सर्वान्संवृङ्क्त इति ॥ ४.३.३॥

तौ वा एतौ द्वौ संवर्गौ वायुरेव देवेषु प्राणः प्राणेषु ॥ ४.३.४॥

अथ ह शौनकं च कापेयमभिप्रतारिणं च काक्षसेनिं
परिविष्यमाणौ ब्रह्मचारी बिभिक्षे तस्मा उ ह न ददतुः ॥ ४.३.५॥

स होवाच महात्मनश्चतुरो देव एकः कः स जगार
भुवनस्य गोपास्तं कापेय नाभिपश्यन्ति मर्त्या
अभिप्रतारिन्बहुधा वसन्तं यस्मै वा एतदन्नं तस्मा
एतन्न दत्तमिति ॥ ४.३.६॥

तदु ह शौनकः कापेयः प्रतिमन्वानः प्रत्येयायात्मा देवानां
जनिता प्रजानाꣳ हिरण्यदꣳष्ट्रो बभसोऽनसूरिर्महान्तमस्य
महिमानमाहुरनद्यमानो यदनन्नमत्तीति वै वयं
ब्रह्मचारिन्नेदमुपास्महे दत्तास्मै भिक्षामिति ॥ ४.३.७॥

तस्म उ ह ददुस्ते वा एते पञ्चान्ये पञ्चान्ये दश
सन्तस्तत्कृतं तस्मात्सर्वासु दिक्ष्वन्नमेव दश कृतꣳ सैषा
विराडन्नादी तयेदꣳ सर्वं दृष्टꣳ सर्वमस्येदं दृष्टं
भवत्यन्नादो भवति य एवं वेद य एवं वेद ॥ ४.३.८॥

॥ इति तृतीयः खण्डः ॥
सत्यकामो ह जाबालो जबालां मातरमामन्त्रयांचक्रे
ब्रह्मचर्यं भवति विवत्स्यामि किंगोत्रो न्वहमस्मीति ॥ ४.४.१॥

सा हैनमुवाच नाहमेतद्वेद तात यद्गोत्रस्त्वमसि
बह्वहं चरन्ती परिचारिणी यौवने त्वामलभे
साहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु नामाहमस्मि
सत्यकामो नाम त्वमसि स सत्यकाम एव जाबालो ब्रवीथा इति ॥ ४.४.२॥

स ह हारिद्रुमतं गौतममेत्योवाच ब्रह्मचर्यं भगवति
वत्स्याम्युपेयां भगवन्तमिति ॥ ४.४.३॥

तꣳ होवाच किंगोत्रो नु सोम्यासीति स होवाच
नाहमेतद्वेद भो यद्गोत्रोऽहमस्म्यपृच्छं मातरꣳ
सा मा प्रत्यब्रवीद्बह्वहं चरन्ती परिचरिणी यौवने
त्वामलभे साहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु
नामाहमस्मि सत्यकामो नाम त्वमसीति सोऽहꣳ
सत्यकामो जाबालोऽस्मि भो इति ॥ ४.४.४॥

तꣳ होवाच नैतदब्राह्मणो विवक्तुमर्हति समिधꣳ
सोम्याहरोप त्वा नेष्ये न सत्यादगा इति तमुपनीय
कृशानामबलानां चतुःशता गा निराकृत्योवाचेमाः
सोम्यानुसंव्रजेति ता अभिप्रस्थापयन्नुवाच
नासहस्रेणावर्तेयेति स ह वर्षगणं प्रोवास ता यदा
सहस्रꣳ सम्पेदुः ॥ ४.४.५॥

॥ इति चतुर्थः खण्डः ॥
अथ हैनमृषभोऽभ्युवाद सत्यकाम३ इति
भगव इति ह प्रतिशुश्राव प्राप्ताः सोम्य सहस्रꣳ स्मः
प्रापय न आचार्यकुलम् ॥ ४.५.१॥

ब्रह्मणश्च ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति
तस्मै होवाच प्राची दिक्कला प्रतीची दिक्कला
दक्षिणा दिक्कलोदीची दिक्कलैष वै सोम्य चतुष्कलः
पादो ब्रह्मणः प्रकाशवान्नाम ॥ ४.५.२॥

स य एतमेवं विद्वाꣳश्चतुष्कलं पादं ब्रह्मणः
प्रकाशवानित्युपास्ते प्रकाशवानस्मिꣳल्लोके भवति
प्रकाशवतो ह लोकाञ्जयति य एतमेवं विद्वाꣳश्चतुष्कलं
पादं ब्रह्मणः प्रकाशवानित्युपास्ते ॥ ४.५.३॥

॥ इति पञ्चमः खण्डः ॥
अग्निष्टे पादं वक्तेति स ह श्वोभूते ग
आभिप्रस्थापयांचकार ता यत्राभि सायं
बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय
पश्चादग्नेः प्राङुपोपविवेश ॥ ४.६.१॥

तमग्निरभ्युवाद सत्यकाम३ इति भगव इति ह प्रतिशुश्राव ॥ ४.६.२॥

ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति
तस्मै होवाच पृथिवी कलान्तरिक्षं कला द्यौः कला
समुद्रः कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणोऽनन्तवान्नाम ॥ ४.६.३॥

स य एतमेवं विद्वाꣳश्चतुष्कलं पादं
ब्रह्मणोऽनन्तवानित्युपास्तेऽनन्तवानस्मिꣳल्लोके
भवत्यनन्तवतो ह लोकाञ्जयति य एतमेवं विद्वाꣳश्चतुष्कलं
पादं ब्रह्मणोऽनन्तवानित्युपास्ते ॥ ४.६.४॥

॥ इति षष्ठः खण्डः ॥
हꣳसस्ते पादं वक्तेति स ह श्वोभूते गा
अभिप्रस्थापयांचकार ता यत्राभि सायं
बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय
पश्चादग्नेः प्राङुपोपविवेश ॥ ४.७.१॥

तꣳहꣳस उपनिपत्याभ्युवाद सत्यकाम३ इति भगव
इति ह प्रतिशुश्राव ॥ ४.७.२॥

ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति
तस्मै होवाचाग्निः कला सूर्यः कला चन्द्रः कला
विद्युत्कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणो
ज्योतिष्मान्नाम ॥ ४.७.३॥

स य एतमेवं विद्वाꣳश्चतुष्कलं पादं ब्रह्मणो
ज्योतिष्मानित्युपास्ते ज्योतिष्मानस्मिꣳल्लोके भवति
ज्योतिष्मतो ह लोकाञ्जयति य एतमेवं विद्वाꣳश्चतुष्कलं
पादं ब्रह्मणो ज्योतिष्मानित्युपास्ते ॥ ४.७.४॥

॥ इति सप्तमः खण्डः ॥
मद्गुष्टे पादं वक्तेति स ह श्वोभूते गा अभिप्रस्थापयांचकार
ता यत्राभि सायं बभूवुस्तत्राग्निमुपसमाधाय गा
उपरुध्य समिधमाधाय पश्चादग्नेः प्राङुपोपविवेश ॥ ४.८.१॥

तं मद्गुरुपनिपत्याभ्युवाद सत्यकाम३ इति भगव इति ह प्रतिशुश्राव ॥ ४.८.२॥

ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति
तस्मै होवाच प्राणः कला चक्षुः कला श्रोत्रं कला मनः
कलैष वै सोम्य चतुष्कलः पादो ब्रह्मण आयतनवान्नाम ॥ ४.८.३॥

स यै एतमेवं विद्वाꣳश्चतुष्कलं पादं ब्रह्मण
आयतनवानित्युपास्त आयतनवानस्मिꣳल्लोके
भवत्यायतनवतो ह लोकाञ्जयति य एतमेवं
विद्वाꣳश्चतुष्कलं पादं ब्रह्मण आयतनवानित्युपास्ते ॥ ४.८.४॥

॥ इति अष्टमः खण्डः ॥
प्राप हाचर्यकुलं तमाचर्योऽभ्युवाद सत्यकाम३ इति
भगव इति ह प्रतिशुश्राव ॥ ४.९.१॥

ब्रह्मविदिव वै सोम्य भासि को नु त्वानुशशासेत्यन्ये
मनुष्येभ्य इति ह प्रतिजज्ञे भगवाꣳस्त्वेव मे कामे ब्रूयात् ॥ ४.९.२॥

श्रुतꣳह्येव मे भगवद्दृशेभ्य आचार्याद्धैव विद्या विदिता
साधिष्ठं प्रापतीति तस्मै हैतदेवोवाचात्र ह न किंचन
वीयायेति वीयायेति ॥ ४.९.३॥

॥ इति नवमः खण्डः ॥
उपकोसलो ह वै कामलायनः सत्यकामे जाबाले
ब्रह्मचार्यमुवास तस्य ह द्वादश वार्षाण्यग्नीन्परिचचार
स ह स्मान्यानन्तेवासिनः समावर्तयꣳस्तं ह स्मैव न
समावर्तयति ॥ ४.१०.१॥

तं जायोवाच तप्तो ब्रह्मचारी कुशलमग्नीन्परिचचारीन्मा
त्वाग्नयः परिप्रवोचन्प्रब्रूह्यस्मा इति तस्मै हाप्रोच्यैव
प्रवासांचक्रे ॥ ४.१०.२॥

स ह व्याधिनानशितुं दध्रे तमाचार्यजायोवाच
ब्रह्मचारिन्नशान किं नु नाश्नासीति स होवाच
बहव इमेऽस्मिन्पुरुषे कामा नानात्यया व्याधीभिः
प्रतिपूर्णोऽस्मि नाशिष्यामीति ॥ ४.१०.३॥

अथ हाग्नयः समूदिरे तप्तो ब्रह्मचारी कुशलं नः
पर्यचारीद्धन्तास्मै प्रब्रवामेति तस्मै होचुः प्राणो ब्रह्म
कं ब्रह्म खं ब्रह्मेति ॥ ४.१०.४॥

स होवाच विजानाम्यहं यत्प्राणो ब्रह्म कं च तु खं च न
विजानामीति ते होचुर्यद्वाव कं तदेव खं यदेव खं तदेव
कमिति प्राणं च हास्मै तदाकाशं चोचुः ॥ ४.१०.५॥

॥ इति दशमः खण्डः ॥
अथ हैनं गार्हपत्योऽनुशशास पृथिव्यग्निरन्नमादित्य
इति य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीति ॥ ४.११.१॥

स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति
सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप
वयं तं भुञ्जामोऽस्मिꣳश्च लोकेऽमुष्मिꣳश्च य एतमेवं विद्वानुपास्ते ॥ ४.११.२॥

॥ इति एकादशः खण्डः ॥
अथ हैनमन्वाहार्यपचनोऽनुशशासापो दिशो नक्षत्राणि
चन्द्रमा इति य एष चन्द्रमसि पुरुषो दृश्यते सोऽहमस्मि
स एवाहमस्मीति ॥ ४.१२.१॥

स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति
सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप
वयं तं भुञ्जामोऽस्मिꣳश्च लोकेऽमुष्मिꣳश्च य एतमेवं विद्वानुपास्ते ॥ ४.१२.२॥

॥ इति द्वादशः खण्डः ॥
अथ हैनमाहवनीयोऽनुशशास प्राण आकाशो द्यौर्विद्युदिति
य एष विद्युति पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीति ॥ ४.१३.१॥

स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति
सर्वमयुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप
वयं तं भुञ्जामोऽस्मिꣳश्च लोकेऽमुष्मिꣳश्च य एतमेवं विद्वानुपास्ते ॥ ४.१३.२॥

॥ इति त्रयोदशः खण्डः ॥
ते होचुरुपकोसलैषा सोम्य तेऽस्मद्विद्यात्मविद्या
चाचार्यस्तु ते गतिं वक्तेत्याजगाम
हास्याचार्यस्तमाचार्योऽभ्युवादोपकोसल३ इति ॥ ४.१४.१॥

भगव इति ह प्रतिशुश्राव ब्रह्मविद इव सोम्य ते मुखं भाति
को नु त्वानुशशासेति को नु मानुशिष्याद्भो इतीहापेव
निह्नुत इमे नूनमीदृशा अन्यादृशा इतीहाग्नीनभ्यूदे
किं नु सोम्य किल तेऽवोचन्निति ॥ ४.१४.२॥

इदमिति ह प्रतिजज्ञे लोकान्वाव किल सोम्य तेऽवोचन्नहं
तु ते तद्वक्ष्यामि यथा पुष्करपलाश आपो न श्लिष्यन्त
एवमेवंविदि पापं कर्म न श्लिष्यत इति ब्रवीतु मे
भगवानिति तस्मै होवाच ॥ ४.१४.३॥

॥ इति चतुर्दशः खण्डः ॥
य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति
होवाचैतदमृतमभयमेतद्ब्रह्मेति
तद्यद्यप्यस्मिन्सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छति ॥ ४.१५.१॥

एतꣳ संयद्वाम इत्याचक्षत एतꣳ हि सर्वाणि
वामान्यभिसंयन्ति सर्वाण्येनं वामान्यभिसंयन्ति य एवं वेद ॥ ४.१५.२॥

एष उ एव वामनीरेष हि सर्वाणि वामानि नयति
सर्वाणि वामानि नयति य एवं वेद ॥ ४.१५.३॥

एष उ एव भामनीरेष हि सर्वेषु लोकेषु भाति
सर्वेषु लोकेषु भाति य एवं वेद ॥ ४.१५.४॥

अथ यदु चैवास्मिञ्छव्यं कुर्वन्ति यदि च
नार्चिषमेवाभिसंभवन्त्यर्चिषोऽहरह्न
आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडुदङ्ङेति
मासाꣳस्तान्मासेभ्यः संवत्सरꣳ
संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं
तत् पुरुषोऽमानवः स एनान्ब्रह्म गमयत्येष देवपथो
ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते नावर्तन्ते ॥ ४.१५.५॥

॥ इति पञ्चदशः खण्डः ॥
एष ह वै यज्ञो योऽयं पवते एष ह यन्निदꣳ सर्वं पुनाति
यदेष यन्निदꣳ सर्वं पुनाति तस्मादेष एव यज्ञस्तस्य
मनश्च वाक्च वर्तनी ॥ ४.१६.१॥

तयोरन्यतरां मनसा सꣳस्करोति ब्रह्मा वाचा
होताध्वर्युरुद्गातान्यतराꣳस यत्रौपाकृते प्रातरनुवाके
पुरा परिधानीयाया ब्रह्मा व्यवदति ॥ ४.१६.२॥

अन्यतरामेव वर्तनीꣳ सꣳस्करोति हीयतेऽन्यतरा
स यथैकपाद्व्रजन्रथो वैकेन चक्रेण वर्तमानो
रिष्यत्येवमस्य यज्ञोरिष्यति यज्ञꣳ रिष्यन्तं
यजमानोऽनुरिष्यति स इष्ट्वा पापीयान्भवति ॥ ४.१६.३॥

अथ यत्रोपाकृते प्रातरनुवाके न पुरा परिधानीयाया ब्रह्मा
व्यवदत्युभे एव वर्तनी सꣳस्कुर्वन्ति न हीयतेऽन्यतरा ॥ ४.१६.४॥

स यथोभयपाद्व्रजन्रथो वोभाभ्यां चक्राभ्यां वर्तमानः
प्रतितिष्ठत्येवमस्य यज्ञः प्रतितिष्ठति यज्ञं प्रतितिष्ठन्तं
यजमानोऽनुप्रतितिष्ठति स इष्ट्वा श्रेयान्भवति ॥ ४.१६.५॥

॥ इति षोडशः खण्डः ॥
प्रजापतिर्लोकानभ्यतपत्तेषां तप्यमानानाꣳ
रसान्प्रावृहदग्निं पृथिव्या वायुमन्तरिक्षातादित्यं दिवः ॥ ४.१७.१॥

स एतास्तिस्रो देवता अभ्यतपत्तासां तप्यमानानाꣳ
रसान्प्रावृहदग्नेरृचो वायोर्यजूꣳषि सामान्यादित्यात् ॥ ४.१७.२॥

स एतां त्रयीं विद्यामभ्यतपत्तस्यास्तप्यमानाया
रसान्प्रावृहद्भूरित्यृग्भ्यो भुवरिति यजुर्भ्यः स्वरिति सामभ्यः ॥ ४.१७.३॥

तद्यदृक्तो रिष्येद्भूः स्वाहेति गार्हपत्ये जुहुयादृचामेव
तद्रसेनर्चां वीर्येणर्चां यज्ञस्य विरिष्टꣳ संदधाति ॥ ४.१७.४॥

स यदि यजुष्टो रिष्येद्भुवः स्वाहेति दक्षिणाग्नौ
जुहुयाद्यजुषामेव तद्रसेन यजुषां वीर्येण यजुषां यज्ञस्य विरिष्टꣳ संदधाति ॥ ४.१७.५॥

अथ यदि सामतो रिष्येत्स्वः स्वाहेत्याहवनीये
जुहुयात्साम्नामेव तद्रसेन साम्नां वीर्येण साम्नां यज्ञस्य विरिष्टं संदधाति ॥ ४.१७.६॥

तद्यथा लवणेन सुवर्णꣳ संदध्यात्सुवर्णेन रजतꣳ
रजतेन त्रपु त्रपुणा सीसꣳ सीसेन लोहं लोहेन दारु दारु चर्मणा ॥ ४.१७.७॥

एवमेषां लोकानामासां देवतानामस्यास्त्रय्या विद्याया
वीर्येण यज्ञस्य विरिष्टꣳ संदधाति भेषजकृतो ह वा
एष यज्ञो यत्रैवंविद्ब्रह्मा भवति ॥ ४.१७.८॥

एष ह वा उदक्प्रवणो यज्ञो यत्रैवंविद्ब्रह्मा भवत्येवंविदꣳ
ह वा एषा ब्रह्माणमनुगाथा यतो यत आवर्तते तत्तद्गच्छति ॥ ४.१७.९॥

मानवो ब्रह्मैवैक ऋत्विक्कुरूनश्वाभिरक्षत्येवंविद्ध
वै ब्रह्मा यज्ञं यजमानꣳ सर्वाꣳश्चर्त्विजोऽभिरक्षति
तस्मादेवंविदमेव ब्रह्माणं कुर्वीत नानेवंविदं नानेवंविदम् ॥ ४.१७.१०॥

॥ इति सप्तदशः खण्डः ॥
॥ इति चतुर्थोऽध्यायः ॥

https://sanskrit.dasarpai.com/chandogyopnishad-4/