8 minute read

छान्दोग्योपनिषत् पञ्चमोऽध्यायः

Chandogyopnishad 5

यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च ह वै श्रेष्ठश्च
भवति प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च ॥ ५.१.१॥

यो ह वै वसिष्ठं वेद वसिष्ठो ह स्वानां भवति वाग्वाव वसिष्ठः ॥ ५.१.२॥

यो ह वै प्रतिष्ठां वेद प्रति ह तिष्ठत्यस्मिꣳश्च
लोकेऽमुष्मिꣳश्च चक्षुर्वाव प्रतिष्ठा ॥ ५.१.३॥

यो ह वै सम्पदं वेद सꣳहास्मै कामाः पद्यन्ते
दैवाश्च मानुषाश्च श्रोत्रं वाव सम्पत् ॥ ५.१.४॥

यो ह वा आयतनं वेदायतनꣳ ह स्वानां भवति
मनो ह वा आयतनम् ॥ ५.१.५॥

अथ ह प्राणा अहꣳश्रेयसि व्यूदिरेऽहꣳश्रेयानस्म्यहꣳ श्रेयानस्मीति ॥ ५.१.६॥

ते ह प्राणाः प्रजापतिं पितरमेत्योचुर्भगवन्को नः
श्रेष्ठ इति तान्होवाच यस्मिन्व उत्क्रान्ते शरीरं
पापिष्ठतरमिव दृश्येत स वः श्रेष्ठ इति ॥ ५.१.७॥

सा ह वागुच्चक्राम सा संवत्सरं प्रोष्य पर्येत्योवाच
कथमशकतर्ते मज्जीवितुमिति यथा कला अवदन्तः
प्राणन्तः प्राणेन पश्यन्तश्चक्षुषा श‍ृण्वन्तः श्रोत्रेण
ध्यायन्तो मनसैवमिति प्रविवेश ह वाक् ॥ ५.१.८॥

चक्षुर्होच्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच
कथमशकतर्ते मज्जीवितुमिति यथान्धा अपश्यन्तः
प्राणन्तः प्राणेन वदन्तो वाचा श‍ृण्वन्तः श्रोत्रेण
ध्यायन्तो मनसैवमिति प्रविवेश ह चक्षुः ॥ ५.१.९॥

श्रोत्रꣳ होच्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच
कथमशकतर्ते मज्जीवितुमिति यथा बधिरा अश‍ृण्वन्तः
प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा
ध्यायन्तो मनसैवमिति प्रविवेश ह श्रोत्रम् ॥ ५.१.१०॥

मनो होच्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच
कथमशकतर्ते मज्जीवितुमिति यथा बाला अमनसः
प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा
श‍ृण्वन्तः श्रोत्रेणैवमिति प्रविवेश ह मनः ॥ ५.१.११॥

अथ ह प्राण उच्चिक्रमिषन्स यथा सुहयः
पड्वीशशङ्कून्संखिदेदेवमितरान्प्राणान्समखिदत्तꣳ
हाभिसमेत्योचुर्भगवन्नेधि त्वं नः श्रेष्ठोऽसि मोत्क्रमीरिति ॥ ५.१.१२॥

अथ हैनं वागुवाच यदहं वसिष्ठोऽस्मि त्वं
तद्वसिष्ठोऽसीत्यथ हैनं चक्षुरुवाच यदहं
प्रतिष्ठास्मि त्वं तत्प्रतिष्ठासीति ॥ ५.१.१३॥

अथ हैनꣳश्रोत्रमुवाच यदहं सम्पदस्मि त्वं
तत्सम्पदसीत्यथ हैनं मन उवाच यदहमायतनमस्मि
त्वं तदायतनमसीति ॥ ५.१.१४॥

न वै वाचो न चक्षूꣳषि न श्रोत्राणि न
मनाꣳसीत्याचक्षते प्राणा इत्येवाचक्षते प्राणो
ह्येवैतानि सर्वाणि भवति ॥ ५.१.१५॥

॥ इति प्रथमः खण्डः ॥
स होवाच किं मेऽन्नं भविष्यतीति यत्किंचिदिदमा
श्वभ्य आ शकुनिभ्य इति होचुस्तद्वा एतदनस्यान्नमनो
ह वै नाम प्रत्यक्षं न ह वा एवंविदि किंचनानन्नं
भवतीति ॥ ५.२.१॥

स होवाच किं मे वासो भविष्यतीत्याप इति
होचुस्तस्माद्वा एतदशिष्यन्तः
पुरस्ताच्चोपरिष्टाच्चाद्भिः परिदधति
लम्भुको ह वासो भवत्यनग्नो ह भवति ॥ ५.२.२॥

तद्धैतत्सत्यकामो जाबालो गोश्रुतये वैयाघ्रपद्यायोक्त्वोवाच
यद्यप्येनच्छुष्काय स्थाणवे ब्रूयाज्जायेरन्नेवास्मिञ्छाखाः
प्ररोहेयुः पलाशानीति ॥ ५.२.३॥

अथ यदि महज्जिगमिषेदमावास्यायां दीक्षित्वा पौर्णमास्याꣳ
रात्रौ सर्वौषधस्य मन्थं दधिमधुनोरुपमथ्य ज्येष्ठाय
श्रेष्ठाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे सम्पातमवनयेत् ॥ ५.२.४॥

वसिष्ठाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे
सम्पातमवनयेत्प्रतिष्ठायै स्वाहेत्यग्नावाज्यस्य हुत्वा
मन्थे सम्पातमवनयेत्सम्पदे स्वाहेत्यग्नावाज्यस्य हुत्वा
मन्थे सम्पातमवनयेदायतनाय स्वाहेत्यग्नावाज्यस्य हुत्वा
मन्थे सम्पातमवनयेत् ॥ ५.२.५॥

अथ प्रतिसृप्याञ्जलौ मन्थमाधाय जपत्यमो नामास्यमा
हि ते सर्वमिदꣳ स हि ज्येष्ठः श्रेष्ठो राजाधिपतिः
स मा ज्यैष्ठ्यꣳ श्रैष्ठ्यꣳ राज्यमाधिपत्यं
गमयत्वहमेवेदꣳ सर्वमसानीति ॥ ५.२.६॥

अथ खल्वेतयर्चा पच्छ आचामति तत्सवितुर्वृणीमह
इत्याचामति वयं देवस्य भोजनमित्याचामति श्रेष्ठꣳ
सर्वधातममित्याचामति तुरं भगस्य धीमहीति सर्वं पिबति
निर्णिज्य कꣳसं चमसं वा पश्चादग्नेः संविशति चर्मणि वा
स्थण्डिले वा वाचंयमोऽप्रसाहः स यदि स्त्रियं
पश्येत्समृद्धं कर्मेति विद्यात् ॥ ५.२.७॥

तदेष श्लोको यदा कर्मसु काम्येषु स्त्रियꣳ स्वप्नेषु
पश्यन्ति समृद्धिं तत्र जानीयात्तस्मिन्स्वप्ननिदर्शने
तस्मिन्स्वप्ननिदर्शने ॥ ५.२.८॥

॥ इति द्वितीयः खण्डः ॥
श्वेतकेतुर्हारुणेयः पञ्चालानाꣳ समितिमेयाय
तꣳ ह प्रवाहणो जैवलिरुवाच कुमारानु
त्वाशिषत्पितेत्यनु हि भगव इति ॥ ५.३.१॥

वेत्थ यदितोऽधि प्रजाः प्रयन्तीति न भगव इति वेत्थ
यथा पुनरावर्तन्त३ इति न भगव इति वेत्थ
पथोर्देवयानस्य पितृयाणस्य च व्यावर्तना३ इति न भगव इति ॥ ५.३.२॥

वेत्थ यथासौ लोको न सम्पूर्यत३ इति न भगव इति
वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो
भवन्तीति नैव भगव इति ॥ ५.३.३ ॥

अथानु किमनुशिष्ठोऽवोचथा यो हीमानि न
विद्यात्कथꣳ सोऽनुशिष्टो ब्रुवीतेति स हायस्तः
पितुरर्धमेयाय तꣳ होवाचाननुशिष्य वाव किल मा
भगवानब्रवीदनु त्वाशिषमिति ॥ ५.३.४ ॥

पञ्च मा राजन्यबन्धुः प्रश्नानप्राक्षीत्तेषां
नैकंचनाशकं विवक्तुमिति स होवाच यथा मा त्वं
तदैतानवदो यथाहमेषां नैकंचन वेद
यद्यहमिमानवेदिष्यं कथं ते नावक्ष्यमिति ॥ ५.३.५॥

स ह गौतमो राज्ञोऽर्धमेयाय तस्मै ह प्राप्तायार्हां चकार
स ह प्रातः सभाग उदेयाय तꣳ होवाच मानुषस्य
भगवन्गौतम वित्तस्य वरं वृणीथा इति स होवाच तवैव
राजन्मानुषं वित्तं यामेव कुमारस्यान्ते
वाचमभाषथास्तामेव मे ब्रूहीति स ह कृच्छ्री बभूव ॥ ५.३.६॥

तꣳ ह चिरं वसेत्याज्ञापयांचकार तꣳ होवाच
यथा मा त्वं गौतमावदो यथेयं न प्राक्त्वत्तः पुरा विद्या
ब्राह्मणान्गच्छति तस्मादु सर्वेषु लोकेषु क्षत्रस्यैव
प्रशासनमभूदिति तस्मै होवाच ॥ ५.३.७

॥ इति तृतीयः खण्डः ॥
असौ वाव लोको गौतमाग्निस्तस्यादित्य एव
समिद्रश्मयो धूमोऽहरर्चिश्चन्द्रमा अङ्गारा नक्षत्राणि
विस्फुलिङ्गाः ॥ ५.४.१॥

तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति
तस्या अहुतेः सोमो राजा संभवति ॥ ५.४.२ ॥

॥ इति चतुर्थः खण्डः ॥
पर्जन्यो वाव गौतमाग्निस्तस्य वायुरेव समिदभ्रं धूमो
विद्युदर्चिरशनिरङ्गाराह्रादनयो विस्फुलिङ्गाः ॥ ५.५.१॥

तस्मिन्नेतस्मिन्नग्नौ देवाः सोमꣳ राजानं जुह्वति
तस्या आहुतेर्वर्षꣳ संभवति ॥ ५.५.२॥

॥ इति पञ्चमः खण्डः ॥
पृथिवी वाव गौतमाग्निस्तस्याः संवत्सर एव
समिदाकाशो धूमो रात्रिरर्चिर्दिशोऽङ्गारा
अवान्तरदिशो विस्फुलिङ्गाः ॥ ५.६.१॥

तस्मिन्नेतस्मिन्नग्नौ देवा वर्षं जुह्वति
तस्या आहुतेरन्नꣳ संभवति ॥ ५.६.२॥

॥ इति षष्ठः खण्डः ॥
पुरुषो वाव गौतमाग्निस्तस्य वागेव समित्प्राणो धूमो
जिह्वार्चिश्चक्षुरङ्गाराः श्रोत्रं विस्फुलिङ्गाः ॥ ५.७.१॥

तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति तस्या
आहुते रेतः सम्भवति ॥ ५.७.२॥

॥ इति सप्तमः खण्डः ॥
योषा वाव गौतमाग्निस्तस्या उपस्थ एव समिद्यदुपमन्त्रयते
स धूमो योनिरर्चिर्यदन्तः करोति तेऽङ्गारा अभिनन्दा
विस्फुलिङ्गाः ॥ ५.८.१॥

तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति
तस्या आहुतेर्गर्भः संभवति ॥ ५.८.२ ॥

॥ इति अष्टमः खण्डः ॥
इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति
स उल्बावृतो गर्भो दश वा नव वा मासानन्तः शयित्वा
यावद्वाथ जायते ॥ ५.९.१॥

स जातो यावदायुषं जीवति तं प्रेतं दिष्टमितोऽग्नय
एव हरन्ति यत एवेतो यतः संभूतो भवति ॥ ५.९.२॥

॥ इति नवमः खण्डः ॥
तद्य इत्थं विदुः। ये चेमेऽरण्ये श्रद्धा तप इत्युपासते
तेऽर्चिषमभिसंभवन्त्यर्चिषोऽहरह्न
आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडुदङ्ङेति
मासाꣳस्तान् ॥ ५.१०.१॥

मासेभ्यः संवत्सरꣳ संवत्सरादादित्यमादित्याच्चन्द्रमसं
चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स एनान्ब्रह्म
गमयत्येष देवयानः पन्था इति ॥ ५.१०.२॥

अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते
धूममभिसंभवन्ति धूमाद्रात्रिꣳ
रात्रेरपरपक्षमपरपक्षाद्यान्षड्दक्षिणैति
मासाꣳस्तान्नैते संवत्सरमभिप्राप्नुवन्ति ॥ ५.१०.३॥

मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्रमसमेष
सोमो राजा तद्देवानामन्नं तं देवा भक्षयन्ति ॥ ५.१०.४॥

तस्मिन्यवात्सम्पातमुषित्वाथैतमेवाध्वानं पुनर्निवर्तन्ते
यथेतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति
धूमो भूत्वाभ्रं भवति ॥ ५.१०.५॥

अभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति
त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति
जायन्तेऽतो वै खलु दुर्निष्प्रपतरं यो यो ह्यन्नमत्ति
यो रेतः सिञ्चति तद्भूय एव भवति ॥ ५.१०.६॥

तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां
योनिमापद्येरन्ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं
वाथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां
योनिमापद्येरञ्श्वयोनिं वा सूकरयोनिं वा
चण्डालयोनिं वा ॥ ५.१०.७॥

अथैतयोः पथोर्न कतरेणचन तानीमानि
क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व
म्रियस्वेत्येतत्तृतीयꣳस्थानं तेनासौ लोको न सम्पूर्यते
तस्माज्जुगुप्सेत तदेष श्लोकः ॥ ५.१०.८॥

स्तेनो हिरण्यस्य सुरां पिबꣳश्च गुरोस्तल्पमावसन्ब्रह्महा
चैते पतन्ति चत्वारः पञ्चमश्चाचरꣳस्तैरिति ॥ ५.१०.९॥

अथ ह य एतानेवं पञ्चाग्नीन्वेद न सह
तैरप्याचरन्पाप्मना लिप्यते शुद्धः पूतः पुण्यलोको भवति
य एवं वेद य एवं वेद ॥ ५.१०.१०॥

॥ इति दशमः खण्डः ॥
प्राचीनशाल औपमन्यवः सत्ययज्ञः
पौलुषिरिन्द्रद्युम्नो भाल्लवेयो जनः शार्कराक्ष्यो
बुडिल आश्वतराश्विस्ते हैते महाशाला महाश्रोत्रियाः
समेत्य मीमाꣳसां चक्रुः को न आत्मा किं ब्रह्मेति ॥ ५.११.१॥

ते ह सम्पादयांचक्रुरुद्दालको वै भगवन्तोऽयमारुणिः
सम्प्रतीममात्मानं वैश्वानरमध्येति तꣳ
हन्ताभ्यागच्छामेति तꣳ हाभ्याजग्मुः ॥ ५.११.२॥

स ह सम्पादयांचकार प्रक्ष्यन्ति मामिमे
महाशाला महाश्रोत्रियास्तेभ्यो न सर्वमिव प्रतिपत्स्ये
हन्ताहमन्यमभ्यनुशासानीति ॥ ५.११.३॥

तान्होवाचाश्वपतिर्वै भगवन्तोऽयं कैकेयः
सम्प्रतीममात्मानं वैश्वानरमध्येति
तꣳहन्ताभ्यागच्छामेति तꣳहाभ्याजग्मुः ॥ ५.११.४॥

तेभ्यो ह प्राप्तेभ्यः पृथगर्हाणि कारयांचकार
स ह प्रातः संजिहान उवाच न मे स्तेनो जनपदे न
कर्दर्यो न मद्यपो नानाहिताग्निर्नाविद्वान्न स्वैरी स्वैरिणी
कुतो यक्ष्यमाणो वै भगवन्तोऽहमस्मि यावदेकैकस्मा
ऋत्विजे धनं दास्यामि तावद्भगवद्भ्यो दास्यामि
वसन्तु भगवन्त इति ॥ ५.११.५॥

ते होचुर्येन हैवार्थेन पुरुषश्चरेत्तꣳहैव
वदेदात्मानमेवेमं वैश्वानरꣳ सम्प्रत्यध्येषि तमेव नो
ब्रूहीति ॥ ५.११.६॥

तान्होवाच प्रातर्वः प्रतिवक्तास्मीति ते ह समित्पाणयः
पूर्वाह्णे प्रतिचक्रमिरे तान्हानुपनीयैवैतदुवाच ॥ ५.११.७॥

॥ इति एकादशः खण्डः ॥
औपमन्यव कं त्वमात्मानमुपास्स इति दिवमेव भगवो
राजन्निति होवाचैष वै सुतेजा आत्मा वैश्वानरो यं
त्वमात्मानमुपास्से तस्मात्तव सुतं प्रसुतमासुतं कुले
दृश्यते ॥ ५.१२.१॥

अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य
ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते
मूधा त्वेष आत्मन इति होवाच मूर्धा ते
व्यपतिष्यद्यन्मां नागमिष्य इति ॥ ५.१२.२॥

॥ इति द्वादशः खण्डः ॥
अथ होवाच सत्ययज्ञं पौलुषिं प्राचीनयोग्य कं
त्वमात्मानमुपास्स इत्यादित्यमेव भगवो राजन्निति
होवाचैष वै विश्वरूप आत्मा वैश्वानरो यं
त्वमात्मानमुपास्से तस्मात्तव बहु विश्वरूपं कुले
दृश्यते ॥ ५.१३.१॥

प्रवृत्तोऽश्वतरीरथो दासीनिष्कोऽत्स्यन्नं पश्यसि
प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले
य एतमेवमात्मानं वैश्वानरमुपास्ते चक्षुषेतदात्मन इति
होवाचान्धोऽभविष्यो यन्मां नागमिष्य इति ॥ ५.१३.२॥

॥ इति त्रयोदशः खण्डः ॥
अथ होवाचेन्द्रद्युम्नं भाल्लवेयं वैयाघ्रपद्य कं
त्वमात्मानमुपास्स इति वायुमेव भगवो राजन्निति
होवाचैष वै पृथग्वर्त्मात्मा वैश्वानरो यं
त्वमात्मानमुपास्से तस्मात्त्वां पृथग्बलय आयन्ति
पृथग्रथश्रेणयोऽनुयन्ति ॥ ५.१४.१॥

अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य
ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते
प्राणस्त्वेष आत्मन इति होवाच प्राणस्त
उदक्रमिष्यद्यन्मां नागमिष्य इति ॥ ५.१४.२॥

॥ इति चतुर्दशः खण्डः ॥
अथ होवाच जनꣳशार्कराक्ष्य कं त्वमात्मानमुपास्स
इत्याकाशमेव भगवो राजन्निति होवाचैष वै बहुल
आत्मा वैश्वानरो यं त्वमात्मानमुपस्से तस्मात्त्वं
बहुलोऽसि प्रजया च धनेन च ॥ ५.१५.१॥

अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य
ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते
संदेहस्त्वेष आत्मन इति होवाच संदेहस्ते व्यशीर्यद्यन्मां
नागमिष्य इति ॥ ५.१५.२॥

॥ इति पञ्चदशः खण्डः ॥
अथ होवाच बुडिलमाश्वतराश्विं वैयाघ्रपद्य कं
त्वमात्मानमुपास्स इत्यप एव भगवो राजन्निति होवाचैष
वै रयिरात्मा वैश्वानरो यं त्वमात्मानमुपास्से
तस्मात्त्वꣳरयिमान्पुष्टिमानसि ॥ ५.१६.१॥

अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य
ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते
बस्तिस्त्वेष आत्मन इति होवाच बस्तिस्ते व्यभेत्स्यद्यन्मां
नागमिष्य इति ॥ ५.१६.२॥

॥ इति षोडशः खण्डः ॥
अथ होवाचोद्दालकमारुणिं गौतम कं त्वमात्मानमुपस्स
इति पृथिवीमेव भगवो राजन्निति होवाचैष वै
प्रतिष्ठात्मा वैश्वानरो यं त्वमात्मानमुपास्से
तस्मात्त्वं प्रतिष्ठितोऽसि प्रजया च पशुभिश्च ५.१७.१॥

अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य
ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते
पादौ त्वेतावात्मन इति होवाच पादौ ते व्यम्लास्येतां
यन्मां नागमिष्य इति ५.१७.२॥

॥ इति सप्तदशः खण्डः ॥
तान्होवाचैते वै खलु यूयं पृथगिवेममात्मानं
वैश्वानरं विद्वाꣳसोऽन्नमत्थ यस्त्वेतमेवं
प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते स सर्वेषु
लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति ॥ ५.१८.१॥

तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव
सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्मात्मा संदेहो
बहुलो बस्तिरेव रयिः पृथिव्येव पादावुर एव वेदिर्लोमानि
बर्हिर्हृदयं गार्हपत्यो मनोऽन्वाहार्यपचन आस्यमाहवनीयः ॥ ५.१८.२॥

॥ इति अष्टादशः खण्डः ॥
तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयꣳ स यां
प्रथमामाहुतिं जुहुयात्तां जुहुयात्प्राणाय स्वाहेति
प्राणस्तृप्यति ॥ ५.१९.१॥

प्राणे तृप्यति चक्षुस्तृप्यति चक्षुषि
तृप्यत्यादित्यस्तृप्यत्यादित्ये तृप्यति द्यौस्तृप्यति
दिवि तृप्यन्त्यां यत्किंच द्यौश्चादित्यश्चाधितिष्ठतस्तत्तृप्यति
तस्यानुतृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा
ब्रह्मवर्चसेनेति ॥ ५.१९.२॥

॥ इति एकोनविंशः खण्डः ॥
अथ यां द्वितीयां जुहुयात्तां जुहुयाद्व्यानाय स्वाहेति व्यानस्तृप्यति ॥ ५.२०.१॥

व्याने तृप्यति श्रोत्रं तृप्यति श्रोत्रे तृप्यति
चन्द्रमास्तृप्यति चन्द्रमसि तृप्यति दिशस्तृप्यन्ति
दिक्षु तृप्यन्तीषु यत्किंच दिशश्च चन्द्रमाश्चाधितिष्ठन्ति
तत्तृप्यति तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन
तेजसा ब्रह्मवर्चसेनेति ॥ ५.२०.२॥

॥ इति विंशः खण्डः ॥
अथ यां तृतीयां जुहुयात्तां जुहुयादपानाय
स्वाहेत्यपानस्तृप्यति ॥ ५.२१.१॥

अपाने तृप्यति वाक्तृप्यति वाचि तृप्यन्त्यामग्निस्तृप्यत्यग्नौ
तृप्यति पृथिवी तृप्यति पृथिव्यां तृप्यन्त्यां यत्किंच
पृथिवी चाग्निश्चाधितिष्ठतस्तत्तृप्यति
तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ ५.२१.२॥

॥ इति एकविंशः खण्डः ॥
अथ यां चतुर्थीं जुहुयात्तां जुहुयात्समानाय स्वाहेति समानस्तृप्यति ॥ ५.२२.१॥

समाने तृप्यति मनस्तृप्यति मनसि तृप्यति पर्जन्यस्तृप्यति
पर्जन्ये तृप्यति विद्युत्तृप्यति विद्युति तृप्यन्त्यां यत्किंच
विद्युच्च पर्जन्यश्चाधितिष्ठतस्तत्तृप्यति तस्यानु तृप्तिं
तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ ५.२२.२ ॥

॥ इति द्वाविंशः खण्डः ॥
अथ यां पञ्चमीं जुहुयात्तां जुहुयादुदानाय स्वाहेत्युदानस्तृप्यति ॥ ५.२३.१॥

उदाने तृप्यति त्वक्तृप्यति त्वचि तृप्यन्त्यां वायुस्तृप्यति
वायौ तृप्यत्याकाशस्तृप्यत्याकाशे तृप्यति यत्किंच
वायुश्चाकाशश्चाधितिष्ठतस्तत्तृप्यति तस्यानु तृप्तिं
तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेन ॥ ५.२३.२॥

॥ इति त्रयोविंशः खण्डः ॥
स य इदमविद्वाग्निहोत्रं जुहोति यथाङ्गारानपोह्य
भस्मनि जुहुयात्तादृक्तत्स्यात् ॥ ५.२४.१॥

अथ य एतदेवं विद्वानग्निहोत्रं जुहोति तस्य सर्वेषु लोकेषु
सर्वेषु भूतेषु सर्वेष्वात्मसु हुतं भवति ॥ ५.२४.२॥

तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवꣳहास्य सर्वे
पाप्मानः प्रदूयन्ते य एतदेवं विद्वानग्निहोत्रं जुहोति ॥ ५.२४.३॥

तस्मादु हैवंविद्यद्यपि चण्डालायोच्छिष्टं
प्रयच्छेदात्मनि हैवास्य तद्वैश्वानरे हुतꣳ स्यादिति तदेष श्लोकः ॥ ५.२४.४॥

यथेह क्षुधिता बाला मातरं पर्युपासत एवꣳ सर्वाणि
भूतान्यग्निहोत्रमुपासत इत्यग्निहोत्रमुपासत इति ॥ ५.२४.५॥

॥ इति चतुर्विंशः खण्डः ॥
॥ इति पञ्चमोऽध्यायः ॥

https://sanskrit.dasarpai.com/chandogyopnishad-5/