2 minute read

रुद्रप्रश्नः लघुन्यासः

RudraPrashna LaghuNyasa

ॐ अथात्मानग्ं शिवात्मानग् श्रीरुद्ररूपं ध्यायेत् ॥

रुद्रप्रश्नः लघुन्यासः
शुद्धस्फटिकसंकाशं त्रिनेत्रं पञ्चवक्त्रकम् ।
गङ्गाधरं दशभुजं सर्वाभरणभूषितम् ॥
नीलग्रीवं शशाङ्काङ्कं नागयज्ञोपवीतिनम् ।
व्याघ्रचर्मोत्तरीयं च वरेण्यमभयप्रदम् ॥
कमण्डल्वक्षसूत्राणां धारिणं शूलपाणिनम् ।
ज्वलन्तं पिङ्गलजटा-शिखामुद्योतधारिणम् ॥
वृषस्कन्ध-समारूढम् उमादेहार्ध-धारिणम् ।
अमृतेनाप्लुतं शान्तं दिव्यभोगसमन्वितम् ॥
दिग्देवतासमायुक्तं सुरासुरनमस्कृतम् ।
नित्यंच शाश्वतं शुद्धं ध्रुवमक्षरमव्ययम् ॥
सर्वव्यापिनमीशानं रुद्रं वै विश्वरूपिणम् ।
एवं ध्यात्वा द्विजसम्यक् ततो यजनमारभेत् ॥

ॐ प्रजनने ब्रह्मा तिष्ठतु । पादयोर्विष्णुस्तिष्ठतु ।
हस्तयोर्हरस्तिष्ठतु । बाह्वोरिन्द्रस्तिष्ठतु ।
जठरेऽग्निस्तिष्ठतु । हृदये शिवस्तिष्ठतु ।
कण्ठे वसवस्तिष्ठन्तु । वक्त्रे सरस्वती तिष्ठतु ।
नासिकयोर्वायुस्तिष्ठतु । नयनयोश्चन्द्रादित्यौ तिष्ठेताम् ।
कर्णयोरश्विनौ तिष्ठेताम् । ललाटे रुद्रास्तिष्ठन्तु ।
मूर्ध्न्यादित्यास्तिष्ठन्तु । शिरसि महादेवस्तिष्ठतु ।
शिखायां वामदेवस्तिष्ठतु । पृष्ठे पिनाकी तिष्ठतु ।
पुरतः शूली तिष्ठतु । पार्श्वयोः शिवाशङ्करौ तिष्ठेताम् ।
सर्वतो वायुस्तिष्ठतु । ततो बहिः सर्वतोऽग्निर्ज्वालामाला परिवृतस्तिष्ठतु ।
सर्वेष्वङ्गेषु सर्वा देवता यथास्थानं तिष्ठन्तु ।
माग्ं रक्षन्तु । सर्वान् महाजनान् रक्षन्तु ॥

ॐ अ॒ग्निर्मे॑ वा॒चि श्रि॒तः । वाग्धृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते᳚ ।
अ॒मृतं॒ ब्रह्म॑णि । वा॒युर्मे᳚ प्रा॒णे श्रि॒तः । प्रा॒णो हृद॑ये । हृद॑यं॒
मयि॑ । अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि । सूर्यो॑ मे॒ चक्षुषि श्रि॒तः ।
चक्षु॒र्हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि
। च॒न्द्रमा॑ मे॒ मन॑सि श्रि॒तः । मनो॒ हृद॑ये । हृद॑यं॒ मयि॑ ।
अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि । दिशो॑ मे॒ श्रोत्रे᳚ श्रि॒ताः । श्रोत्र॒ग्ं॒
हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि । आपो॑ मे॒
रेत॑सि श्रि॒ताः । रेतो॒ हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते᳚ । अ॒मृतं॒
ब्रह्म॑णि । पृ॒थि॒वी मे॒ शरी॑रे श्रि॒ता । शरी॑र॒ग्ं॒ हृद॑ये । हृद॑यं॒
मयि॑ । अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि । ओ॒ष॒धि॒व॒न॒स्प॒तयो॑
मे॒ लोम॑सु श्रि॒ताः । लोमा॑नि॒ हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते᳚ ।
अ॒मृतं॒ ब्रह्म॑णि । इन्द्रो॑ मे॒ बले᳚ श्रि॒तः । बल॒ग्ं॒ हृद॑ये । हृद॑यं॒
मयि॑ । अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि । प॒र्जन्यो॑ मे मू॒र्ध्नि श्रि॒तः ।
मू॒र्धा हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि ।
ईशा॑नो मे म॒न्यौ श्रि॒तः । म॒न्युर्हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते᳚ ।
अ॒मृतं॒ ब्रह्म॑णि । आ॒त्मा म॑ आ॒त्मनि॑ श्रि॒तः । आ॒त्मा हृद॑ये । हृद॑यं॒
मयि॑ । अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि । पुन॑र्म आ॒त्मा पुन॒रायु॒रागा᳚त् ।
पुनः॑ प्रा॒णः पुन॒राकू॑त॒मागा᳚त् । वै॒श्वा॒न॒रो र॒श्मिभि॑र्वावृधा॒नः ।
अ॒न्तस्ति॑ष्ठत्व॒मृत॑स्य गो॒पाः ॥

अस्य श्री रुद्राध्याय प्रश्न महामन्त्रस्य अघोर ऋषिः, अनुष्टुप् छन्दः,
सङ्कर्षणमूर्तिस्वरूपो योऽसावादित्यः परमपुरुषः स एष रुद्रो देवता ।
नमः शिवायेति बीजम् । शिवतरायेति शक्तिः । महादेवायेति कीलकम् ।
श्री साम्बसदाशिव प्रसाद सिद्ध्यर्थे जपे विनियोगः ॥

ॐ अग्निहोत्रात्मने अङ्गुष्ठाभ्यां नमः । दर्शपूर्णमासात्मने तर्जनीभ्यां नमः ।
चातुर्मास्यात्मने मध्यमाभ्यां नमः । निरूढपशुबन्धात्मने अनामिकाभ्यां नमः ।
ज्योतिष्टोमात्मने कनिष्ठिकाभ्यां नमः । सर्वक्रत्वात्मने करतलकरपृष्ठाभ्यां नमः ।
अग्निहोत्रात्मने हृदयाय नमः । दर्शपूर्णमासात्मने शिरसे स्वाहा ।
चातुर्मास्यात्मने शिखायै वषट् । निरूढपशुबन्धात्मने कवचाय हुम् ।
ज्योतिष्टोमात्मने नेत्रत्रयाय वौषट् । सर्वक्रत्वात्मने अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बन्धः ।

॥ ध्यानम् ॥
आपाताळ-नभः स्थलान्त-भुवन-ब्रह्माण्ड-माविस्फुर-
ज्ज्योतिः स्फाटिक-लिङ्ग-मौळि-विलसत्पूर्णेन्दु-वान्तामृतैः ।
अस्तोकाप्लुत-मेक-मीश-मनिशं रुद्रानुवाकाञ्जपन्
ध्याये-दीप्सित-सिद्धये ध्रुवपदं विप्रोऽभिषिञ्चे-च्छिवम् ॥

ब्रह्माण्डव्याप्तदेहा भसितहिमरुचा भासमाना भुजङ्गैः
कण्ठे कालाः कपर्दाकलित शशिकला-श्चण्डकोदण्ड हस्ताः ॥

त्र्यक्षा रुद्राक्षमालाः प्रकटितविभवाः शाम्भवा मूर्तिभेदा
रुद्राः श्रीरुद्रसूक्त-प्रकटितविभवा नः प्रयच्छन्तु सौख्यम् ॥

ॐ ग॒णानां᳚ त्वा ग॒णप॑तिग्ं हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् ।
ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ श‍ृ॒ण्वन्नू॒तिभि॑स्सीद॒ साद॑नम्

ॐ शं च॑ मे॒ मय॑श्च मे प्रि॒यं च॑ मेऽनुका॒मश्च॑ मे॒ काम॑श्च मे
सौमन॒सश्च॑ मे भ॒द्रं च॑ मे॒ श्रेय॑श्च मे॒ वस्य॑श्च मे॒ यश॑श्च
मे॒ भग॑श्च मे॒ द्रवि॑णं च मे य॒न्ता च मे ध॒र्ता च॑ मे॒ क्षेम॑श्च मे॒
धृति॑श्च मे॒ विश्वं॑ च मे॒ मह॑श्च मे सं॒विच्च॑ मे॒ ज्ञात्रं॑ च मे॒
सूश्च॑ मे प्र॒सूश्च॑ मे॒ सीरं॑ च मे ल॒यश्च॑ म ऋ॒तं च॑ मे॒ऽमृतं॑ च
मेऽय॒क्ष्मं च॒ मेऽना॑मयच्च मे जी॒वातुश्च मे दीर्घायु॒त्वं च॑ मेऽनमि॒त्रं
च॒ मेऽभ॑यं च मे सु॒गं च॑ मे॒ शय॑नं च मे सू॒षा च॑ मे सु॒दिनं॑
च मे ॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

https://sanskrit.dasarpai.com/rudraprashna-laghunyasa/