less than 1 minute read

श्रीसारदास्तवं

Shri Sarada Stava

प्रकृतिं परमामभयां वरदां नररूपधरां जनतापहराम्।
शरणागतसेवकतोषकरीं प्रणमामि परां जननीं जगताम्॥1॥

गुणहीनसुतानपराधयुतान् कृपयाद्य समुद्धर मोहगतान्।
तरणीं भवसागरपारकरीं प्रणमामि परां जननीं जगताम्॥2॥

विषयं कुसुमं परिहृत्य सदा चरणाम्बुरुहामृतशान्तिसुधाम्।
पिब भृङ्गमनो भवरोगहरां प्रणमामि परां जननीं जगताम्॥3॥

कृपां कुरु महादेवि सुतेषु प्रणतेषु च।
चरणाश्रयदानेन कृपामयि नमोऽस्तु ते॥
लज्जापटावृते नित्यं सारदे ज्ञानदायिके।
पापेभ्यो नः सदा रक्ष कृपामयि नमोऽस्तु ते॥4॥

रामकृष्णगतप्राणां तन्नामश्रवणप्रियाम्।
तद्भावरञ्जिताकारां प्रणमामि मुहुर्मुहुः॥
पवित्रं चरितं यस्याः पवित्रं जीवनं तथा।
पवित्रतास्वरूपिण्यै तस्यै कुर्मो नमो नमः॥5॥

देवीं प्रसन्नां प्रणतार्तिहन्त्रीं योगीन्द्रपूज्यां युगधर्मपात्रीम्।
तां सारदां भक्तिविज्ञानदात्रीं दयास्वरूपां प्रणमामि नित्यम्॥6॥

स्नेहेन बध्नासि मनोऽस्मदीयं दोषानशेषान् सगुणीकरोषि।
अहेतुना नो दयसे सदोषान् स्वाङ्के गृहीत्वा यदिदं विचित्रम्॥7॥

प्रसीद मातर्विनयेन याचे नित्यं भव स्नेहवती सुतेषु।
प्रेमैकबिन्दुं चिरदग्धचित्ते विषिञ्च चित्तं कुरु नः सुशान्तम्॥8॥

जननीं सारदां देवीं रामकृष्णं जगद्गुरुम्।
पादपद्मे तयोः श्रित्वा प्रणमामि मुहुर्मुहुः॥9॥

https://sanskrit.dasarpai.com/shri-sarada-stava/