less than 1 minute read

श्रीहनुमत्सूक्तम्

ShrihanumatSuktam

श्रीमन्तो सर्वलक्षणसम्पन्नो जयप्रदः
सर्वाभरणभूषित उदारो महोन्नतोष्ट्रारूढः
केसरीप्रियनन्न्दनो वायुतनूजो यथेच्छं पम्पातीरविहारी
गन्धमादनसञ्चारी हेमप्राकाराञ्चितकनककदलीवनान्तरनिवासी
परमात्मा वनेचरशापविमोचनो
हेमकनकवर्णो नानारत्नखचिताममूल्यां मेखलां च स्वर्णोपवीतं
कौशेयवस्त्रं च बिभ्राणः सनातनो परमपुरषो
महाबलो अप्रमेयप्रतापशाली रजितवर्णः
शुद्धस्पटिकसङ्काशः पञ्चवदनः
पञ्चदशनेत्रस्सकलदिव्यास्त्रधारी
श्रीसुवर्चलारमणो महेन्द्राद्यष्टदिक्पालक-
त्रयस्त्रिंशद्गीर्वाणमुनिगणगन्धर्वयक्षकिन्नरपन्नगासुरपूजित
पादपद्मयुगलः नानावर्णः कामरूपः
कामचारी योगिध्येयः श्रीहनुमान्
आञ्जनेयः विराट्रूपी विश्वात्मा विश्वरूपः
पवननन्दनः पार्वतीपुत्रः
ईश्वरतनूजः सकलमनोरथान्नो ददातु।

इदं श्रीहनुमत्सूक्तं यो धीमानेकवारं पठेद्यदि
सर्वेभ्यः पापेभ्यो विमुक्तो भूयात् ।

https://sanskrit.dasarpai.com/shrihanumatsuktam/