Skip to main content
  1. Samskrut Yatra Blog/

Shanti Patha - शान्तिपाठः

·501 words·3 mins· loading · ·
My Chanting Paatham Prayers Mychanting

शान्तिपाठः 
#

Shanti Paath
#

शान्तिपाठः

१ कृष्णयजुर्वेद  (कठोपनिषत्, माण्डुक्योपनिषत्, श्वेतश्वतारोपनिषत्)

ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ।

२ कृष्णयजुर्वेद  तैत्तिरीयोपनिषत्

ॐ शं नो॑ मि॒त्रः शं वरु॑णः । शं नो॑ भवत्वर्य॒मा । शं न॒ इन्द्रो॒ बृह॒स्पतिः॑ ।
शं नो॒ विष्णु॑रुरुक्र॒मः । नमो॒ ब्रह्म॑णे । नम॑स्ते वायो । त्वमे॒व प्र॒त्यक्षं॒ ब्रह्मा॑सि ।
त्वमे॒व प्र॒त्यक्षं॒ ब्रह्म॑ वदिष्यामि । ऋ॒तं व॑दिष्यामि । स॒त्यं व॑दिष्यामि ।
तन्माम॑वतु । तद्व॒क्तार॑मवतु । अव॑तु॒ माम् । अव॑तु व॒क्तारम्᳚ ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

३ अथर्ववेद  प्रश्नोपनिषत् मुण्डकोपनिषत् माण्डुक्योपनिषत्

ॐ भ॒द्रं कर्णे॑भिः श‍ृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः ।
स्थि॒रैरङ्गै᳚स्तुष्टु॒वाम्+स॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒ यदायुः॑ ।
स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः ।
स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ।
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

४ ॐ नमो॒ ब्रह्म॑णे॒ नमो॑ अस्त्व॒ग्नये॒ नमः॑ पृथि॒व्यै नम॒ ओष॑धीभ्यः ।
नमो॑ वा॒चे नमो॑ वा॒चस्पत॑ये॒ नमो॒ विष्ण॑वे बृह॒ते क॑रोमि ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

५ ॐ यश्छन्द॑सामृष॒भो वि॒श्वरू॑पः । छन्दो॒भ्योऽध्य॒मृता᳚थ्सम्ब॒भूव॑ ।
स मेन्द्रो॑ मे॒धया᳚ स्पृणोतु । अ॒मृत॑स्य देव॒धार॑णो भूयासम् ।
शरी॑रं मे॒ विच॑र्षणम् । जि॒ह्वा मे॒ मधु॑मत्तमा ।
कर्णा᳚भ्यां॒ भूरि॒विश्रु॑वम् । ब्रह्म॑णः को॒शो॑ऽसि मे॒धया पि॑हितः । श्रु॒तं मे॑ गोपाय ।
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

६ ॐ तच्छं॒ योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑ । गा॒तुं य॒ज्ञप॑तये ।
दैवी᳚ स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मानु॑षेभ्यः ।
ऊ॒र्ध्वं जि॑गातु भेष॒जम् । शं नो॑ अस्तु द्वि॒पदे᳚ । शं चतु॑ष्पदे ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

७ ॐ नमो॑ वा॒चे या चो॑दि॒ता या चानु॑दिता॒ तस्यै॑ वा॒चे नमो॒ नमो॑
वा॒चे नमो॑ वा॒चस्पत॑ये॒ नम॒ ऋषि॑भ्यो मन्त्र॒कृद्भ्यो॒ मन्त्र॑पतिभ्यो॒
मामामृष॑यो मन्त्र॒कृतो॑ मन्त्र॒पत॑यः॒ परा॑दु॒र्मा ऽहमृषी᳚न्मन्त्र॒कृतो॑
मन्त्र॒पती॒न्परा॑दां वैश्वदे॒वीं वाच॑मुद्यासग्ं शि॒वामद॑स्तां॒ जुष्टां᳚
दे॒वेभ्यः॒ शर्म॑ मे॒ द्यौः शर्म॑पृथि॒वी शर्म॒ विश्व॑मि॒दं जग॑त् ।

शर्म॑ च॒न्द्रश्च॒ सूर्य॑श्च॒ शर्म॑ ब्रह्मप्रजाप॒ती ।

भू॒तं व॑दिष्ये॒ भुव॑नं वदिष्ये॒ तेजो॑ वदिष्ये॒ यशो॑ वदिष्ये॒ तपो॑ वदिष्ये॒  ब्रह्म॑ वदिष्ये
स॒त्यं व॑दिष्ये॒ तस्मा॑ अ॒हमि॒दमु॑प॒स्तर॑ण॒मुप॑स्तृण उप॒स्तर॑णं
मे प्र॒जायै॑ पशू॒नां भू॑यादुप॒स्तर॑णम॒हं प्र॒जायै॑ पशू॒नां भू॑यासं॒
प्राणा॑पानौ मृ॒त्योर्मा॑पातं॒ प्राण॑पानौ॒ मा मा॑ हासिष्टं॒ मधु॑ मनिष्ये॒ मधु॑
जनिष्ये॒ मधु॑ वक्ष्यामि॒ मधु॑ वदिष्यामि॒ मधु॑मतीं दे॒वेभ्यो॒ वाच॑मुद्यासग्ं
शुश्रू॒षेण्यां᳚ मनु॒ष्ये᳚भ्य॒स्तं मा॑ दे॒वा अ॑वन्तु शो॒भायै॑ पि॒तरोऽनु॑मदन्तु
॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

८ ऋग्वेद
मधु॒वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः । माध्वी॑र्नः स॒न्त्वोष॑धीः ॥
मधु॒ नक्त॑मु॒तोषसि॒ मधु॑म॒त्पार्थि॑व॒ग्॒म् रजः॑ । मधु॒ द्यौर॑स्तु नः पि॒ता ॥
मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माँ अस्तु॒ सूर्यः॑ । माध्वी॒र्गावो॑ भवन्तु नः ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

९ ऋग्वेद ऐतरेयोपनिषत् ।

ॐ वाङ्मे॒ मन॑सि॒ प्रति॑ष्ठिता॒ मनो॑ मे॒ वाचि॒ प्रति॑ष्ठितमा॒विरा॒वीर्म॑ एधि वे॒दस्य म॒ आणी᳚स्थः श्रु॒तं मे॒ मा प्रहा॑सीर॒नेना॒धीते॑नाहोरा॒त्रान् सन्द॑धाम्यृ॒तं व॑दिष्यामि स॒त्यं व॑दिष्यामि॒
तन्माम॑वतु॒ तद्व॒क्तार॑मव॒त्वव॑तु॒ मामव॑तु व॒क्तार॒मव॑तु व॒क्तारम्᳚ ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

१० शुक्लयजुर्वेद  ईशावास्योपनिषत् , बृहदारण्यकोपनिषत्

ॐ पूर्ण॒मदः॒ पूर्ण॒मिदं॒ पूर्णा॒त्पूर्ण॒मुद॒च्यते । पूर्ण॒स्य पूर्ण॒मादा॒य पूर्ण॒मेवावशि॒ष्यते ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॒ ॥

११ रुद्रप्रश्नः

ॐ इडा॑ देव॒हूर्मनु॑र्यज्ञ॒नीर्बृह॒स्पति॑रुक्थाम॒दानि॑ शꣳसिष॒द्विश्वे॑दे॒वाः सू᳚क्त॒वाचः॒ पृथि॑वीमात॒र्मा मा॑ हिꣳसी॒र्मधु॑ मनिष्ये॒ मधु॑ जनिष्ये॒ मधु॒ वक्ष्यामि॒ मधु॑ वदिष्यामि॒ मधु॒मतीं दे॒वेभ्यो॒ वाच॑मुद्यासꣳ शुश्रू॒षेण्यां᳚ मनु॒ष्ये᳚भ्य॒स्तं  मा॑ दे॒वा अ॑वन्तु शो॒भायै॑ पि॒तरोऽनु॑मदन्तु ॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

१२ सामवेद  केनोपनिषत् , छान्दोग्योपनिषत्

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रम् अथो बलमिन्द्रियाणि च सर्वाणि
सर्वं ब्रह्मौपनिषदं माऽहं ब्रह्मनिराकुर्याम् मा मा ब्रह्मनिराकरोदनिराकरणमस्तु
अनिराकरणं मेऽस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

Related

Guhagita - गुहगीता
·3533 words·17 mins· loading
Sanskrit Text Hanumanji
अथ गुहगीता प्रारम्भः # अथ प्रथमोऽध्यायः # मनोविकारः विप्रा ऊचुः- सूतपुत्र महाप्राज्ञ कथकोऽसि दयाकर …
Draft
Hindi Online Quotations
·4409 words·21 mins· loading
Sanskrit Text Hindi Quotes
नेतृत्व करने के लिए उम्र नही,साहस और क्षमता चाहिए मिलते रहिये सबसे, किसी ना किसी बहाने से, संबंध …
Hanuman Sahsranamavali - हनुमान सहस्त्रनामावली
·6402 words·31 mins· loading
Sanskrit Text Hanumanji
हनुमान सहस्त्रनामावली # हनुमान्: – विशाल और टेढी ठुड्डी वाले । श्रीप्रद: – शोभा प्रदन करने वाले । …
Vijnana Bhairava Tantra Sutras - विज्ञान भैरव तंत्र के सूत्र
·11234 words·53 mins· loading
Sanskrit Text Shiva
विज्ञान भैरव तंत्र के सूत्र # If you want to listen this in English podcast format, generated by AI …
Lalitasahasranamam with Meaning - ललितासहस्रनामं
·11238 words·53 mins· loading
Sanskrit Text Devi
Lalitasahasranama with Meaning # ॐ श्रीललितामहात्रिपुरसुन्दरीस्वरूपा श्रीमीनाक्षी परमेश्वरी …