7 minute read

छान्दोग्योपनिषत् अष्टमोऽध्यायः

Chandogyopnishad 8

अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म
दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं
तद्वाव विजिज्ञासितव्यमिति ॥ ८.१.१॥

तं चेद्ब्रूयुर्यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म
दहरोऽस्मिन्नन्तराकाशः किं तदत्र विद्यते यदन्वेष्टव्यं
यद्वाव विजिज्ञासितव्यमिति स ब्रूयात् ॥ ८.१.२॥

यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय अकाश
उभे अस्मिन्द्यावापृथिवी अन्तरेव समाहिते
उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ
विद्युन्नक्षत्राणि यच्चास्येहास्ति यच्च नास्ति सर्वं
तदस्मिन्समाहितमिति ॥ ८.१.३॥

तं चेद्ब्रूयुरस्मिꣳश्चेदिदं ब्रह्मपुरे सर्वꣳ समाहितꣳ
सर्वाणि च भूतानि सर्वे च कामा यदैतज्जरा वाप्नोति
प्रध्वꣳसते वा किं ततोऽतिशिष्यत इति ॥ ८.१.४॥

स ब्रूयात्नास्य जरयैतज्जीर्यति न वधेनास्य हन्यत
एतत्सत्यं ब्रह्मपुरमस्मिकामाः समाहिताः एष
आत्मापहतपाप्मा विजरो विमृत्युर्विशोको
विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पो यथा ह्येवेह
प्रजा अन्वाविशन्ति यथानुशासनम् यं यमन्तमभिकामा
भवन्ति यं जनपदं यं क्षेत्रभागं तं तमेवोपजीवन्ति ॥ ८.१.५॥

तद्यथेह कर्मजितो लोकः क्षीयत एवमेवामुत्र पुण्यजितो
लोकः क्षीयते तद्य इहात्मानमनुविद्य व्रजन्त्येताꣳश्च
सत्यान्कामाꣳस्तेषाꣳ सर्वेषु लोकेष्वकामचारो
भवत्यथ य इहात्मानमनिवुद्य व्रजन्त्येतꣳश्च
सत्यान्कामाꣳस्तेषाꣳ सर्वेषु लोकेषु कामचारो भवति ॥ ८.१.६॥

॥ इति प्रथमः खण्डः ॥
स यदि पितृलोककामो भवति संकल्पादेवास्य पितरः
समुत्तिष्ठन्ति तेन पितृलोकेन सम्पन्नो महीयते ॥ ८.२.१॥

अथ यदि मातृलोककामो भवति संकल्पादेवास्य मातरः
समुत्तिष्ठन्ति तेन मातृलोकेन सम्पन्नो महीयते ॥ ८.२.२॥

अथ यदि भ्रातृलोककामो भवति संकल्पादेवास्य भ्रातरः
समुत्तिष्ठन्ति तेन भ्रातृलोकेन सम्पन्नो महीयते ॥ ८.२.३॥॥

अथ यदि स्वसृलोककामो भवति संकल्पादेवास्य स्वसारः
समुत्तिष्ठन्ति तेन स्वसृलोकेन सम्पन्नो महीयते ॥ ८.२.४॥

अथ यदि सखिलोककामो भवति संकल्पादेवास्य सखायः
समुत्तिष्ठन्ति तेन सखिलोकेन सम्पन्नो महीयते ॥ ८.२.५॥

अथ यदि गन्धमाल्यलोककामो भवति संकल्पादेवास्य
गन्धमाल्ये समुत्तिष्ठतस्तेन गन्धमाल्यलोकेन सम्पन्नो महीयते ॥ ८.२.६॥

अथ यद्यन्नपानलोककामो भवति संकल्पादेवास्यान्नपाने
समुत्तिष्ठतस्तेनान्नपानलोकेन सम्पन्नो महीयते ॥ ८.२.७॥

अथ यदि गीतवादित्रलोककामो भवति संकल्पादेवास्य
गीतवादित्रे समुत्तिष्ठतस्तेन गीतवादित्रलोकेन सम्पन्नो महीयते ॥ ८.२.८॥

अथ यदि स्त्रीलोककामो भवति संकल्पादेवास्य स्त्रियः
समुत्तिष्ठन्ति तेन स्त्रीलोकेन सम्पन्नो महीयते ॥ ८.२.९॥

यं यमन्तमभिकामो भवति यं कामं कामयते सोऽस्य
संकल्पादेव समुत्तिष्ठति तेन सम्पन्नो महीयते ॥ ८.२.१०॥

॥ इति द्वितीयः खण्डः ॥
त इमे सत्याः कामा अनृतापिधानास्तेषाꣳ सत्यानाꣳ
सतामनृतमपिधानं यो यो ह्यस्येतः प्रैति न तमिह दर्शनाय लभते ॥ ८.३.१॥

अथ ये चास्येह जीवा ये च प्रेता यच्चान्यदिच्छन्न
लभते सर्वं तदत्र गत्वा विन्दतेऽत्र ह्यस्यैते सत्याः
कामा अनृतापिधानास्तद्यथापि हिरण्यनिधिं निहितमक्षेत्रज्ञा
उपर्युपरि सञ्चरन्तो न विन्देयुरेवमेवेमाः सर्वाः प्रजा
अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढाः ॥ ८.३.२॥

स वा एष आत्मा हृदि तस्यैतदेव निरुक्तꣳ हृद्ययमिति
तस्माद्धृदयमहरहर्वा एवंवित्स्वर्गं लोकमेति ॥ ८.३.३॥

अथ य एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं
ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति
होवाचैतदमृतमभयमेतद्ब्रह्मेति तस्य ह वा एतस्य
ब्रह्मणो नाम सत्यमिति ॥ ८.३.४॥

तानि ह वा एतानि त्रीण्यक्षराणि सतीयमिति
तद्यत्सत्तदमृतमथ यत्ति तन्मर्त्यमथ यद्यं तेनोभे
यच्छति यदनेनोभे यच्छति तस्माद्यमहरहर्वा
एवंवित्स्वर्गं लोकमेति ॥ ८.३.५॥

॥ इति तृतीयः खण्डः ॥
अथ य आत्मा स सेतुर्धृतिरेषां लोकानामसंभेदाय
नैतꣳ सेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न
सुकृतं न दुष्कृतꣳ सर्वे पाप्मानोऽतो
निवर्तन्तेऽपहतपाप्मा ह्येष ब्रह्मलोकः ॥ ८.४.१॥

तस्माद्वा एतꣳ सेतुं तीर्त्वान्धः सन्ननन्धो भवति
विद्धः सन्नविद्धो भवत्युपतापी सन्ननुपतापी भवति
तस्माद्वा एतꣳ सेतुं तीर्त्वापि नक्तमहरेवाभिनिष्पद्यते
सकृद्विभातो ह्येवैष ब्रह्मलोकः ॥ ८.४.२॥

तद्य एवैतं ब्रह्मलोकं ब्रह्मचर्येणानुविन्दन्ति
तेषामेवैष ब्रह्मलोकस्तेषाꣳ सर्वेषु लोकेषु कामचारो भवति ॥ ८.४.३॥

॥ इति चतुर्थः खण्डः ॥
अथ यद्यज्ञ इत्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण
ह्येव यो ज्ञाता तं विन्दतेऽथ यदिष्टमित्याचक्षते
ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येवेष्ट्वात्मानमनुविन्दते ॥ ८.५.१॥

अथ यत्सत्त्रायणमित्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण
ह्येव सत आत्मनस्त्राणं विन्दतेऽथ यन्मौनमित्याचक्षते
ब्रह्मचर्यमेव तब्ब्रह्मचर्येण ह्येवात्मानमनुविद्य मनुते ‘॥ ८.५.२॥

अथ यदनाशकायनमित्याचक्षते ब्रह्मचर्यमेव तदेष
ह्यात्मा न नश्यति यं ब्रह्मचर्येणानुविन्दतेऽथ
यदरण्यायनमित्याचक्षते ब्रह्मचर्यमेव तदरश्च ह वै
ण्यश्चार्णवौ ब्रह्मलोके तृतीयस्यामितो दिवि तदैरं
मदीयꣳ सरस्तदश्वत्थः सोमसवनस्तदपराजिता
पूर्ब्रह्मणः प्रभुविमितꣳ हिरण्मयम् ॥ ८.५.३॥

तद्य एवैतवरं च ण्यं चार्णवौ ब्रह्मलोके
ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोकस्तेषाꣳ
सर्वेषु लोकेषु कामचारो भवति ॥ ८.५.४॥

॥ इति पञ्चमः खण्डः ॥
अथ या एता हृदयस्य नाड्यस्ताः पिङ्गलस्याणिम्नस्तिष्ठन्ति
शुक्लस्य नीलस्य पीतस्य लोहितस्येत्यसौ वा आदित्यः
पिङ्गल एष शुक्ल एष नील एष पीत एष लोहितः ॥ ८.६.१॥

तद्यथा महापथ आतत उभौ ग्रामौ गच्छतीमं चामुं
चैवमेवैता आदित्यस्य रश्मय उभौ लोकौ गच्छन्तीमं चामुं
चामुष्मादादित्यात्प्रतायन्ते ता आसु नाडीषु सृप्ता
आभ्यो नाडीभ्यः प्रतायन्ते तेऽमुष्मिन्नादित्ये सृप्ताः ॥ ८.६.२॥

तद्यत्रैतत्सुप्तः समस्त्ः सम्प्रसन्नः स्वप्नं न विजानात्यासु
तदा नाडीषु सृप्तो भवति तं न कश्चन पाप्मा स्पृशति
तेजसा हि तदा सम्पन्नो भवति ॥ ८.६.३॥

अथ यत्रैतदबलिमानं नीतो भवति तमभित आसीना
आहुर्जानासि मां जानासि मामिति स
यावदस्माच्छरीरादनुत्क्रान्तो भवति तावज्जानाति ॥ ८.६.४॥

अथ यत्रैतदस्माच्छरीरादुत्क्रामत्यथैतैरेव
रश्मिभिरूर्ध्वमाक्रमते स ओमिति वा होद्वा मीयते
स यावत्क्षिप्येन्मनस्तावदादित्यं गच्छत्येतद्वै खलु
लोकद्वारं विदुषां प्रपदनं निरोधोऽविदुषाम् ॥ ८.६.५॥

तदेष श्लोकः । शतं चैका च हृदयस्य नाड्यस्तासां
मूर्धानमभिनिःसृतैका । तयोर्ध्वमायन्नमृतत्वमेति
विष्वङ्ङन्या उत्क्रमणे भवन्त्युत्क्रमणे भवन्ति ॥ ८.६.६॥

॥ इति षष्ठः खण्डः ॥
य आत्मापहतपाप्मा विजरो विमृत्युर्विशोको
विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः सोऽन्वेष्टव्यः
स विजिज्ञासितव्यः स सर्वाꣳश्च लोकानाप्नोति
सर्वाꣳश्च कामान्यस्तमात्मानमनुविद्य विजानातीति ह प्रजापतिरुवाच ॥ ८.७.१॥

तद्धोभये देवासुरा अनुबुबुधिरे ते होचुर्हन्त
तमात्मानमन्वेच्छामो यमात्मानमन्विष्य सर्वाꣳश्च
लोकानाप्नोति सर्वाꣳश्च कामानितीन्द्रो हैव
देवानामभिप्रवव्राज विरोचनोऽसुराणां तौ
हासंविदानावेव समित्पाणी प्रजापतिसकाशमाजग्मतुः ॥ ८.७.२॥

तौ ह द्वात्रिꣳशतं वर्षाणि ब्रह्मचर्यमूषतुस्तौ ह
प्रजापतिरुवाच किमिच्छन्तावास्तमिति तौ होचतुर्य
आत्मापहतपाप्मा विजरो विमृत्युर्विशोको
विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः सोऽन्वेष्टव्यः
स विजिज्ञासितव्यः स सर्वाꣳश्च लोकानाप्नोति सर्वाꣳश्च
कामान्यस्तमात्मानमनुविद्य विजानातीति भगवतो वचो
वेदयन्ते तमिच्छन्ताववास्तमिति ॥ ८.७.३॥

तौ ह प्रजापतिरुवाच य एषोऽक्षिणि पुरुषो दृश्यत
एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेत्यथ योऽयं
भगवोऽप्सु परिख्यायते यश्चायमादर्शे कतम एष
इत्येष उ एवैषु सर्वेष्वन्तेषु परिख्यायत इति होवाच ॥ ८.७.४॥

॥ इति सप्तमः खण्डः ॥
उदशराव आत्मानमवेक्ष्य यदात्मनो न विजानीथस्तन्मे
प्रब्रूतमिति तौ होदशरावेऽवेक्षांचक्राते तौ ह
प्रजापतिरुवाच किं पश्यथ इति तौ होचतुः
सर्वमेवेदमावां भगव आत्मानं पश्याव आ लोमभ्यः आ
नखेभ्यः प्रतिरूपमिति ॥ ८.८.१॥

तौ ह प्रजापतिरुवाच साध्वलंकृतौ सुवसनौ परिष्कृतौ
भूत्वोदशरावेऽवेक्षेथामिति तौ ह साध्वलंकृतौ
सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षांचक्राते
तौ ह प्रजापतिरुवाच किं पश्यथ इति ॥ ८.८.२॥

तौ होचतुर्यथैवेदमावां भगवः साध्वलंकृतौ सुवसनौ
परिष्कृतौ स्व एवमेवेमौ भगवः साध्वलंकृतौ सुवसनौ
परिष्कृतावित्येष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति
तौ ह शान्तहृदयौ प्रवव्रजतुः ॥ ८.८.३॥

तौ हान्वीक्ष्य प्रजापतिरुवाचानुपलभ्यात्मानमननुविद्य
व्रजतो यतर एतदुपनिषदो भविष्यन्ति देवा वासुरा वा ते
पराभविष्यन्तीति स ह शान्तहृदय एव
विरोचनोऽसुराञ्जगाम तेभ्यो हैतामुपनिषदं
प्रोवाचात्मैवेह महय्य आत्मा परिचर्य आत्मानमेवेह
महयन्नात्मानं परिचरन्नुभौ लोकाववाप्नोतीमं चामुं चेति ॥ ८.८.४॥

तस्मादप्यद्येहाददानमश्रद्दधानमयजमानमाहुरासुरो
बतेत्यसुराणाꣳ ह्येषोपनिषत्प्रेतस्य शरीरं भिक्षया
वसनेनालंकारेणेति सꣳस्कुर्वन्त्येतेन ह्यमुं लोकं जेष्यन्तो मन्यन्ते ॥ ८.८.५॥

॥ इति अष्टमः खण्डः ॥
अथ हेन्द्रोऽप्राप्यैव देवानेतद्भयं ददर्श यथैव
खल्वयमस्मिञ्छरीरे साध्वलंकृते साध्वलंकृतो भवति
सुवसने सुवसनः परिष्कृते परिष्कृत
एवमेवायमस्मिन्नन्धेऽन्धो भवति स्रामे स्रामः परिवृक्णे
परिवृक्णोऽस्यैव शरीरस्य नाशमन्वेष नश्यति
नाहमत्र भोग्यं पश्यामीति ॥ ८.९.१॥

स समित्पाणिः पुनरेयाय तꣳ ह प्रजापतिरुवाच
मघवन्यच्छान्तहृदयः प्राव्राजीः सार्धं विरोचनेन
किमिच्छन्पुनरागम इति स होवाच यथैव खल्वयं
भगवोऽस्मिञ्छरीरे साध्वलंकृते साध्वलंकृतो भवति
सुवसने सुवसनः परिष्कृते परिष्कृत
एवमेवायमस्मिन्नन्धेऽन्धो भवति स्रामे स्रामः
परिवृक्णे परिवृक्णोऽस्यैव शरीरस्य नाशमन्वेष
नश्यति नाहमत्र भोग्यं पश्यामीति ॥ ८.९.२॥

एवमेवैष मघवन्निति होवाचैतं त्वेव ते
भूयोऽनुव्याख्यास्यामि वसापराणि द्वात्रिꣳशतं वर्षाणीति
स हापराणि द्वात्रिꣳशतं वर्षाण्युवास तस्मै होवाच ॥ ८.९.३॥

॥ इति नवमः खण्डः ॥
य एष स्वप्ने महीयमानश्चरत्येष आत्मेति
होवाचैतदमृतमभयमेतद्ब्रह्मेति स ह शान्तहृदयः
प्रवव्राज स हाप्राप्यैव देवानेतद्भयं ददर्श
तद्यद्यपीदꣳ शरीरमन्धं भवत्यनन्धः स भवति यदि
स्राममस्रामो नैवैषोऽस्य दोषेण दुष्यति ॥ ८.१०.१॥

न वधेनास्य हन्यते नास्य स्राम्येण स्रामो घ्नन्ति त्वेवैनं
विच्छादयन्तीवाप्रियवेत्तेव भवत्यपि रोदितीव नाहमत्र
भोग्यं पश्यामीति ॥ ८.१०.२॥

स समित्पाणिः पुनरेयाय तꣳ ह प्रजापतिरुवाच
मघवन्यच्छान्तहृदयः प्राव्राजीः किमिच्छन्पुनरागम
इति स होवाच तद्यद्यपीदं भगवः शरीरमन्धं भवत्यनन्धः
स भवति यदि स्राममस्रामो नैवैषोऽस्य दोषेण दुष्यति ॥ ८.१०.३॥

न वधेनास्य हन्यते नास्य स्राम्येण स्रामो घ्नन्ति त्वेवैनं
विच्छादयन्तीवाप्रियवेत्तेव भवत्यपि रोदितीव नाहमत्र
भोग्यं पश्यामीत्येवमेवैष मघवन्निति होवाचैतं त्वेव ते
भूयोऽनुव्याख्यास्यामि वसापराणि द्वात्रिꣳशतं वर्षाणीति
स हापराणि द्वात्रिꣳशतं वर्षाण्युवास तस्मै होवाच ॥ ८.१०.४॥

॥ इति दशमः खण्डः ॥
तद्यत्रैतत्सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानात्येष
आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति स ह शान्तहृदयः
प्रवव्राज स हाप्राप्यैव देवानेतद्भयं ददर्श नाह
खल्वयमेवꣳ सम्प्रत्यात्मानं जानात्ययमहमस्मीति
नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामीति ॥ ८.११.१॥

स समित्पाणिः पुनरेयाय तꣳ ह प्रजापतिरुवाच
मघवन्यच्छान्तहृदयः प्राव्राजीः किमिच्छन्पुनरागम इति
स होवाच नाह खल्वयं भगव एवꣳ सम्प्रत्यात्मानं
जानात्ययमहमस्मीति नो एवेमानि भूतानि
विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामीति ॥ ८.११.२॥

एवमेवैष मघवन्निति होवाचैतं त्वेव ते
भूयोऽनुव्याख्यास्यामि नो एवान्यत्रैतस्माद्वसापराणि
पञ्च वर्षाणीति स हापराणि पञ्च वर्षाण्युवास
तान्येकशतꣳ सम्पेदुरेतत्तद्यदाहुरेकशतꣳ ह वै वर्षाणि
मघवान्प्रजापतौ ब्रह्मचर्यमुवास तस्मै होवाच ॥ ८.११.३॥

॥ इति एकादशः खण्डः ॥
मघवन्मर्त्यं वा इदꣳ शरीरमात्तं मृत्युना
तदस्यामृतस्याशरीरस्यात्मनोऽधिष्ठानमात्तो वै
सशरीरः प्रियाप्रियाभ्यां न वै सशरीरस्य सतः
प्रियाप्रिययोरपहतिरस्त्यशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः ॥ ८.१२.१॥

अशरीरो वायुरभ्रं विद्युत्स्तनयित्नुरशरीराण्येतानि
तद्यथैतान्यमुष्मादाकाशात्समुत्थाय परं ज्योतिरुपसम्पद्य
स्वेन रूपेणाभिनिष्पद्यन्ते ॥ ८.१२.२॥।

एवमेवैष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं
ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमपुरुषः
स तत्र पर्येति जक्षत्क्रीडन्रममाणः स्त्रीभिर्वा यानैर्वा
ज्ञातिभिर्वा नोपजनꣳ स्मरन्निदꣳ शरीरꣳ स यथा
प्रयोग्य आचरणे युक्त एवमेवायमस्मिञ्छरीरे
प्राणो युक्तः ॥ ८.१२.३॥

अथ यत्रैतदाकाशमनुविषण्णं चक्षुः स चाक्षुषः
पुरुषो दर्शनाय चक्षुरथ यो वेदेदं जिघ्राणीति स आत्मा
गन्धाय घ्राणमथ यो वेदेदमभिव्याहराणीति स
आत्माभिव्याहाराय वागथ यो वेदेदꣳ श‍ृणवानीति
स आत्मा श्रवणाय श्रोत्रम् ॥ ८.१२.४॥

अथ यो वेदेदं मन्वानीति सात्मा मनोऽस्य दैवं चक्षुः
स वा एष एतेन दैवेन चक्षुषा मनसैतान्कामान्पश्यन्रमते
य एते ब्रह्मलोके ॥ ८.१२.५॥

तं वा एतं देवा आत्मानमुपासते तस्मात्तेषाꣳ सर्वे च
लोका आत्ताः सर्वे च कामाः स सर्वाꣳश्च लोकानाप्नोति
सर्वाꣳश्च कामान्यस्तमात्मानमनुविद्य विजानातीति ह
प्र्जापतिरुवाच प्रजापतिरुवाच ॥ ८.१२.६॥

॥ इति द्वादशः खण्डः ॥
श्यामाच्छबलं प्रपद्ये शबलाच्छ्यामं प्रपद्येऽश्व
इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य
धूत्वा शरीरमकृतं कृतात्मा
ब्रह्मलोकमभिसंभवामीत्यभिसंभवामीति ॥ ८.१३.१॥

॥ इति त्रयोदशः खण्डः ॥
आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा
तद्ब्रह्म तदमृतꣳ स आत्मा प्रजापतेः सभां वेश्म प्रपद्ये
यशोऽहं भवामि ब्राह्मणानां यशो राज्ञां यशोविशां
यशोऽहमनुप्रापत्सि स हाहं यशसां यशः
श्येतमदत्कमदत्कꣳ श्येतं लिन्दु माभिगां लिन्दु
माभिगाम् ॥ ८.१४.१॥

॥ इति चतुर्दशः खण्डः ॥
तधैतद्ब्रह्मा प्रजापतयै उवाच प्रजापतिर्मनवे मनुः
प्रजाभ्यः आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोः
कर्मातिशेषेणाभिसमावृत्य कुटुम्बे शुचौ देशे
स्वाध्यायमधीयानो धर्मिकान्विदधदात्मनि सर्वैन्द्रियाणि
सम्प्रतिष्ठाप्याहिꣳसन्सर्व भूतान्यन्यत्र तीर्थेभ्यः
स खल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसम्पद्यते
न च पुनरावर्तते न च पुनरावर्तते ॥ ८.१५.१॥

॥ इति पञ्चदशः खण्डः ॥
॥ इति अष्टमोऽध्यायः ॥
ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्च्क्षुः
श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि ।
सर्वं ब्रह्मौपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म
निराकरोदनिकारणमस्त्वनिकारणं मेऽस्तु ।
तदात्मनि निरते य उपनिषत्सु धर्मास्ते
मयि सन्तु ते मयि सन्तु ॥

॥ ॐ शान्तिः शान्तिः शान्तिः ॥

॥ इति छान्दोग्योऽपनिषद् ॥

https://sanskrit.dasarpai.com/chandogyopnishad-8/